वैद्यास्तस्य न पश्यंति ये भवंति कुशिक्षिताः
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम्
कुंकुमं तगरं कुष्ठं कासमर्दत्वचं तथा
एतानि समभागानि गोमूत्रेण तु पेषयेत् कालाहिनापि दष्टेन क्षिप्रं भवति निर्विषः
क्षिप्रमेव प्रदा तव्यं मृतसंजीवनौषधम्
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे धातुगतविषक्रियावर्णनं नाम पंचत्रिंशोऽध्यायः
कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च
रूपं नपुंसकेनेह व्यंतरेण च कीदृशम्
कश्यप उवाच अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम्
अथ सर्पेण दष्टस्य ऊर्ध्व दृष्टिः प्रजायते
कन्यादष्टस्य वामा स्यादृष्टिर्द्विजवरोत्तम
गर्भिण्या वाथ दष्टस्य तथा स्वेदश्च जायते नपुंसकेन दष्टस्य अंगमर्दः प्रजायते
पन्नग्यः प्रभवो रात्रौ दिवा सर्पो विषाधिकः
अंधकारे तु दष्टो य उदके गहने वने दष्टरूपाण्यजानन्वै कथं वैद्यचिकित्सितम्
चतुर्विधा इह प्रोक्ताः पन्नगास्तु महात्मना
दर्वीकरा वातविषा मंडला पैत्तिकाः स्मृताः 1.36.
रक्तं परीक्षयेदेषां सर्पाणां तु पृथक्पृथक्
रक्तं घनं च बहुशः शोणितं मंडली कृतम्
सर्पा ज्ञेयास्तु चत्वारः पंचमो नोपलभ्यते
ब्राह्मणे मधुरं दद्यात्तिक्तं दद्यात्तथोत्तरे
ब्राह्मणेन तु दष्टस्य दाहो गात्रेषु जायते
श्यामवर्णं मुखं च स्यान्मज्जास्तंभश्च जायते
अश्वगंधाप्यपामार्गः सिंदुवारं सुरामयम् एतेनैवोपचारेण सुखी भवति मानवः
क्षत्रियेण तु दष्टस्य कंपो गात्रेषु जायते
जायते वेदना तस्य ऊर्ध्वं चैव निरीक्षते
अर्कमूलमपामार्गं प्रियंगुमिन्द्रवारुणीम् एतेनैवोपचारेण सुखी भवति मानवः ।। 1.36.
वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु
मूर्छा च प्रबला यस्य आत्मानं नाभिनंदति
अश्वगंधा सगोमूत्रा गृह धूमं सगुग्गुलम्
गोमूत्रेण समायुक्तं पानं नस्यं च दापयेत्