इति श्रुत्वा वीरसेनः शिरश्छित्त्वा समार्पयत्
दृष्ट्वा तद्रूप सेनस्तु कारणं सर्वमादितः 3.2.3.
तदा प्रसन्ना सा देवी नृपमुजीव्य साब्रवीत्
स आह वीरसेनस्तु सकुलो जीवमाप्नुयात्
रूपसेनः प्रसन्नात्मा स्वसुतां कामरूपिणीम् मुख्यस्नेहं कृतं केन तेषां मध्ये वदस्व मे
मुख्यस्नेहं कृतं राज्ञा दासार्थे स्वतनुं ददौ बंधुप्रीतिश्च भगिनी पितृस्नेही तु पुत्रकः
महान्स्नेहः कृतो राज्ञा रूपसेनेन धीमता
काचिद्भोगावती नाम्ना नगरी परमाद्भुता
रूपवर्मा च नृपतिस्तत्र राज्यं करोति वै
तस्य भूपस्य गेहे च निवसनञ्च्छुभपंजरे
पप्रच्छ मम योग्या वै शुक काचिद्वरांगना
मगधेश्वरभूपस्य कन्या चन्द्रवती शुभा
इति श्रुत्वा स नृपतिर्गणेशं द्विजसत्तमम्
गणेशोपि गतस्तूर्णं देशे मागधके शुभे
नमः शिवाय शांताय सर्वाभीष्टप्रदायिने
मृडायानंदरूपाय सर्वदुःखहराय च
इत्युक्तवति विप्रे च तदा चन्द्रवती शुभा 3.2.4.
मम योग्यश्च पुरुषः कश्चिदस्ति महीतले
इति श्रुत्वा तु सा देवी दुर्गां वाञ्छितदायिनीम्
नमोनमो जगन्मातर्मम कार्यप्रदायिनि
त्वं स्वाहा त्वं स्वधा संध्या नमस्तस्यै नमोनमः
इति स्तुत्या प्रसन्नाभूज्जगदंबा जगन्मयी
विवाहं कारयामास मासान्ते सिद्धरूपिणी
एकस्मिन्दिवसे राजन्मेनां मदनमंजरीम्
मेनका प्राह भो राजन्विवाहाश्चेदृशो मताः
तथैव त्रिविधा नारी यथा योग्यो वरो भवेत्
शृणु तत्कारणं राजन्मया दृष्टं यथाऽभवत् 3.2.4.
अनपत्यो देवयाजी तस्य पत्नी पतिव्रता
द्यूतक्रीडापरो नित्यं सुरापाने रतस्सदा
तस्य धर्मं च पितरौ समालोक्य वनं गतौ