णकारं दक्षिणे कुक्षौ यकारं वामसंज्ञके 1.17.
देकारं जंघयोर्न्यस्य वकारं पादपद्मयोः
मकारं जानुदेशे तु हिकारं गुह्यमाश्रितम्
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम्
याकारं विन्यसेन्मूर्ध्नि तकारं केशमाश्रितम् सर्वोपचारसंपन्नं कृत्वा सम्यङ् निरीक्षयेत्
कुंकुमागुरुकर्पूर चन्दनेन विमिश्रितम् प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमाचरेत्
चक्रग्रन्थिषु सर्वासु प्रणवं विनिवेशयेत्
विन्यसेत्पद्ममध्ये तु पीठनिष्पत्तिहेतवे
ह्रस्वोंकारे मता सा तु दीर्घोंकारे तु देवराट्
यत्नस्थो न निवर्तेत योगी प्राणपरायणः
आवाह्य तेजोरूपं तु न्यसेन्मन्त्रवरांस्ततः 1.17.
स्रष्टारं सर्वजगतां विष्णुरुद्रविधानगम् गायत्रीमुच्चरन्मन्त्रं सर्वकर्माणि कारयेत्
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम्
स्वस्तिकोल्लोपिकादुग्धतिलावेष्टतिलाढिकाः
अन्यांश्च विविधान्दद्यात्पूपानि विविधानि च
मूलमन्त्रेण देवस्य ततो देहं विभावयेत्
प्राणायामत्रयं कृत्वा देहसंशोधनाय वै
ध्यात्वानन्तं ततो रुद्रं पद्मकिंजल्कमध्यगम्
एवं त्रिदेवतारूढं पद्ममध्येंबुजोद्भवम्
ऋग्वेदं तु यजुर्वेदं सामवेदं च पूजयेत् 1.17.
ईशानादिक्रमाद्राजन्विदिशासु समंततः
ज्योतिषं च महाबाहो उपवेदाश्च कृत्स्नशः
शिक्षा कल्पो व्याकरणं देवस्य पुरतः सदा
महाव्याहृतयः सर्वाः प्रणवेन समन्विताः
शक्तयो ब्रह्मणस्त्वेता लोकरूपा व्यवस्थिताः
अरकांतरसंस्थांश्च षट् समुद्रान्समर्चयेत् ।। नक्षत्राणि ग्रहाश्चैव राशयश्च विशेषतः । । पूज्याः सर्वे यथान्यायं सुराग्रेषु व्यवस्थिताः
नागाश्च गरुडश्चैव पूजनीयस्तथाग्रतः तत्तेजोनिलयाः सर्वे पूजनीयाः प्रयत्नतः
आचम्य विधिवत्पूर्वं मंत्रपूतेन वारिणा ।। हृदयादीन्न्यसेदंगान्हृदयादिषु कृत्स्नशः
शिखा नेत्रं तथा चर्म अस्त्रं च भरतर्षभ । । महेंद्रादिदिशश्चैताः पूजयेद्विधिवन्नृप
हृदयं पुरतः पूज्यं शिरो देवस्य पृष्ठतः ।। पूर्वं संपूजयेद्देवं मूलमंत्रेण कृत्स्नशः । । 1.17.