ब्रह्मणो दर्शनं पुण्यं दर्शनात्स्पर्शनं परम् 1.17.
वाचिकं मानसं पापं घृतस्नानेन देहिनाम्
स्नपयित्वार्चयेद्भक्त्या यथा तच्छृणु भारत
चतुर्हस्तं लिखेत्पद्मं चतुर्भागविभागितम्
सरोजानि ततो न्यस्य अक्षराणि समन्ततः
नानावर्णकसंयोगाल्लिखेच्चैवानुपूर्वशः
सितं शुद्धं तु कर्त्तव्यं मध्यभागे तु वर्तुलम्
एवमालिख्य यत्नेन मूलमन्त्रं ततो न्यसेत्
नादरूपं न्यसेत्तावद्यावच्छब्दस्य शून्यता
विकारं कण्ठदेशे तु तुकारं सर्वसंधिषु
णकारं दक्षिणे कुक्षौ यकारं वामसंज्ञके 1.17.
देकारं जंघयोर्न्यस्य वकारं पादपद्मयोः
मकारं जानुदेशे तु हिकारं गुह्यमाश्रितम्
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम्
याकारं विन्यसेन्मूर्ध्नि तकारं केशमाश्रितम् सर्वोपचारसंपन्नं कृत्वा सम्यङ् निरीक्षयेत्
कुंकुमागुरुकर्पूर चन्दनेन विमिश्रितम् प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमाचरेत्
चक्रग्रन्थिषु सर्वासु प्रणवं विनिवेशयेत्
विन्यसेत्पद्ममध्ये तु पीठनिष्पत्तिहेतवे
ह्रस्वोंकारे मता सा तु दीर्घोंकारे तु देवराट्
यत्नस्थो न निवर्तेत योगी प्राणपरायणः
आवाह्य तेजोरूपं तु न्यसेन्मन्त्रवरांस्ततः 1.17.
स्रष्टारं सर्वजगतां विष्णुरुद्रविधानगम् गायत्रीमुच्चरन्मन्त्रं सर्वकर्माणि कारयेत्
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम्
स्वस्तिकोल्लोपिकादुग्धतिलावेष्टतिलाढिकाः
अन्यांश्च विविधान्दद्यात्पूपानि विविधानि च
मूलमन्त्रेण देवस्य ततो देहं विभावयेत्
प्राणायामत्रयं कृत्वा देहसंशोधनाय वै
ध्यात्वानन्तं ततो रुद्रं पद्मकिंजल्कमध्यगम्
एवं त्रिदेवतारूढं पद्ममध्येंबुजोद्भवम्
ऋग्वेदं तु यजुर्वेदं सामवेदं च पूजयेत् 1.17.