समासक्तं यथा चित्तं जन्तोर्विषयगोचरे 1.17.
खण्डस्फुटितसंस्कारं शालायां यः करोति वै
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः
प्रतिपद्यादिसर्वेषु दिवसेषूत्सवेषु च
शंखभेर्यादिनिर्घोषैर्महद्भिगेंयसंयुतैः
यावत्पर्वाणि विधिना कुर्या न्नीराजनं नृप
स्नानकाले त्रिसंध्यं तु यः कुर्यान्नृत्यवादनम्
यावन्त्यहानि कुरुते गेयनृत्यादिवादनम्
कपिलापञ्चगव्येन कुशवारियुतेन च
कपिलापंचगव्येन दधिक्षीरघृतेन च
देवाग्निकार्यमुद्दिश्य कपिलामाहरेत्सदा 1.17.
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम्
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम्
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।। पितामहघृतस्नानं दहत्यग्निरिवेंधनम्
घृतस्नानं प्रतिपदि सकृत्कृत्वा तु कांजजम्
अयुतं यो गवां दद्याद्भक्त्या वै वेदपारगे
सकृदाज्येन पयसा स्नपयेत्तु यः
स्नाप्य दध्ना सकृद्वीर कञ्जजं विष्णुमाप्नुयात्
स्नानमिक्षुरसेनेह यो विरिंचेः समाचरेत्
शुद्धोदकेन यो भक्त्या स्नापयेत्पद्मसंभवम्
वस्त्रपूतेन तोयेन स्नपयेद्यः सकृद्विभुम् 1.17.
सर्वौषधीभिर्यो भक्त्या स्नपयेत्पद्मसंभवम्
गन्धचन्दनतोयेन स्नापयेद्योंबुजोद्भवम्
पाटलोत्पलपद्मानि करवीराणि सर्वदा
एषामेकतमं स्नानं भक्त्या कृत्वा तु वेधसि
कर्पूरागरुतोयेन स्नपयेद्यस्तु कञ्जजम्
गायत्रीशतजप्तेन विमलेनांभसा विभुम्
विभुं शीतांबुना स्नाप्य धारोष्णपयसा ततः
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः
मृत्कुंभैस्ताम्रजैः कुंभैः स्नानं शतगुणं भवेत्