क्रीडमानोपि यः कुर्याच्छालां वै ब्रह्मणो नृप 1.17.
पुष्पमालापरिक्षिप्तं किंकिणीजालभूषितम्
मुक्तादामवितानेन शोभितं सूर्यसुप्रभम्
तत्रोषित्वा महाभोगी क्रीडमानः सदा सुरैः
पश्यन्परिहरञ्जन्तून्मृदुपूर्वं महीपते
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम्
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम्
तस्यांते स चतुर्वेदः सुरूपः प्रियदर्शनः
कपटेनापि यः कुर्याद्ब्रह्मशालां सुमानद
तावद्धमंति संसारे दुःखशोकभयप्लुताः
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे 1.17.
खण्डस्फुटितसंस्कारं शालायां यः करोति वै
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः
प्रतिपद्यादिसर्वेषु दिवसेषूत्सवेषु च
शंखभेर्यादिनिर्घोषैर्महद्भिगेंयसंयुतैः
यावत्पर्वाणि विधिना कुर्या न्नीराजनं नृप
स्नानकाले त्रिसंध्यं तु यः कुर्यान्नृत्यवादनम्
यावन्त्यहानि कुरुते गेयनृत्यादिवादनम्
कपिलापञ्चगव्येन कुशवारियुतेन च
कपिलापंचगव्येन दधिक्षीरघृतेन च
देवाग्निकार्यमुद्दिश्य कपिलामाहरेत्सदा 1.17.
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम्
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम्
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।। पितामहघृतस्नानं दहत्यग्निरिवेंधनम्
घृतस्नानं प्रतिपदि सकृत्कृत्वा तु कांजजम्
अयुतं यो गवां दद्याद्भक्त्या वै वेदपारगे
सकृदाज्येन पयसा स्नपयेत्तु यः
स्नाप्य दध्ना सकृद्वीर कञ्जजं विष्णुमाप्नुयात्
स्नानमिक्षुरसेनेह यो विरिंचेः समाचरेत्
शुद्धोदकेन यो भक्त्या स्नापयेत्पद्मसंभवम्