यस्तु पूजयते भक्त्या विरिंचिं भुवनेश्वरम् 1.17.
तस्मात्सौम्यमना भूत्वा यावज्जीवं प्रतिज्ञया
वरं देहपरित्यागो वरं नरकसम्भवः
सदा पूजयते यस्तु वीर भक्त्या पितामहम्
न हि वेधोऽर्चनात्किंचित्पुण्यमभ्यधिकं भवेत्
यो ब्रह्माणं द्वेष्टि मोहात्सर्वदेवनमस्कृतम्
ब्रह्मणोर्चां प्रतिष्ठाप्य सर्वयत्नैर्विधानतः
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम्
कञ्जजं स्थापयेद्यस्तु कृत्वा शालां मनोरमाम्
मातृजान्पितृजांश्चैव यां चैवोद्वहते स्त्रियम्
भुक्त्वा तु विपुलान्भोगान्प्रलये समुपस्थिते 1.17.
अथ वा राज्यमाकांक्षेज्जायते संभवांतरे
त्रिसंध्यं यो जपेद्ब्रह्म कृत्वाष्टदल पंकजम्
अनेनैव स देहेन ब्रह्मा संतिष्ठते क्षितौ
उद्धृत्य दिवि संस्थाप्य कुलानामेकविंशतिम्
अप्येकवारं यो भक्त्या पूजयेत्पद्म संभवम्
पुण्यक्षयात्क्षितिं प्राप्य भवेत्क्षितिपतिर्महान्
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः
मृद्दार्वेष्टकशैलैर्वा यः कुर्याद्ब्रह्मणो गृहम्
मृन्मयात्कोटिगुणितं फलं दार्विष्टकामये
क्रीडमानोपि यः कुर्याच्छालां वै ब्रह्मणो नृप 1.17.
पुष्पमालापरिक्षिप्तं किंकिणीजालभूषितम्
मुक्तादामवितानेन शोभितं सूर्यसुप्रभम्
तत्रोषित्वा महाभोगी क्रीडमानः सदा सुरैः
पश्यन्परिहरञ्जन्तून्मृदुपूर्वं महीपते
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम्
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम्
तस्यांते स चतुर्वेदः सुरूपः प्रियदर्शनः
कपटेनापि यः कुर्याद्ब्रह्मशालां सुमानद
तावद्धमंति संसारे दुःखशोकभयप्लुताः