प्रजापतिर्वास्तुयागे मंडपे चापि पद्मके
गोदाने च भवेद्रुद्रः कन्यादाने तु गोऽजकः
वृषोत्सर्गे भवेत्सूर्योऽवसानांते रविः स्मृतः
त्रासने च भवेत्कालः क्रव्यादः शरदाहने
गर्भाधाने च मरुतः सीमंते पिंगलः स्मृतः 2.1.17.
नामसंस्थापने चैवमुपन्यस्ते च पार्थिवः
षडाननश्च चूडायां व्रतादेशे समुद्भवः
उदरे जठराग्निश्च समुद्रे वडवानलः
अश्वाग्निर्मंथरो नाम रथाग्निर्जातवेदसः
तोयाग्निर्वरुणोनाम ब्राह्मणाग्निर्हविर्भुजः
दीपाग्निः पावको नाम गृह्याग्निर्धरणीपतिः
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेऽग्निनामवर्णनंनाम सप्तदशोऽध्यायः
श्री गणेशाय नमः । । ऽ नमो भगवते वासुदेवाय नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् । । १ जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति । । २ मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् । । ३ पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं, नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा, भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । । ४ यो गोशतं कनकशृङ्गमयं ददाति, विप्राय वेदविदुषे च बहुश्रुताय । पुण्यां भविष्यसुकथां शृणुयात्समग्रां, पुण्यं समं भवति तस्य च तस्य चैव । । ५ कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि । तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् । । ६ तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् । स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् । । ७ अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् । तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार । । ८ जयति भुवनदीपो भास्करो लोककर्त्ता, जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । । जयति च शशिमौली रुद्रनामाभिधेयो, जयति च स तु देवो भानुमांश्चित्रभानुः । । १ श्रियावृतं तु राजानं शतानीकं महाबलम् । अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः । । २ भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा । । ३ मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः । भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ । । ४ वैशम्पायनो महात्मा शौनकश्च महातपाः । दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः । । ५ तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः । विधिवत्पूजयामास अभिगम्य महामतिः । । ६ पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च । पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् । । ७ सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् । उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् । । ८ इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः । आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम् । । ९ धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः । येषां स्मरणमात्रेण युष्माकं पूयते नरः । । 1.1.१० श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् । आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः! । । ११ येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् । यथागतो मम पिता श्रुत्वा वै भारतं पुरा । । १२ तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः । समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा । । १३ पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् । व्यासं प्रसादय विभो! एष ते कथयिष्यति । । १४ तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते! । । १५ २अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा । कृपालुश्च तथा चायं तथा दिव्यविधानवित् । । १६ चतुर्णामपि वर्णानां पावनाय महात्मनाम् । धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् । । १७ बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् । भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् । । १८ यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् । तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः । । १९ आस्तिक्यारोहसोपानमेतद्भारतमुच्यते । तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते । । 1.1.२० देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि । । २१ विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम् । । २२ धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् । । २३ मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये । । २४ विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः । । २५ एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः । । २६ स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् । । २७ शतानीक उवाच अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे । । २८ समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् । । २९ व्यास उवाच तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो! । । 1.1.३० यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् । श्रव्यं भरतशार्दूल! सर्वपापभयापहम् । । ३१ यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव । महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् । । ३२ अथ तमृषयः सर्वे राजानमिदमब्रुवन् । साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना । । ३३ सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् । अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः । अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् । । ३४ कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः । भारतादिकथानां तु यत्रास्य रमते मनः । । ३५ असावपि महातेजाः श्रुत्वा भावं महामतेः । व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः । । ३६ चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः । व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः । । ३७ अथ राजा महातेजा आजमीढो द्विजोत्तमम् । प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे । । ३८ शतानीक उवाच पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय । श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात् । । ३९ सुमन्तुरुवाच नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः । । 1.1.४० किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः । । ४१ शतानीक उवाच मतानि कानि विप्रेन्द्र १! धर्मशास्त्राणि सुव्रत! । यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः । । ४२ सुमन्तुरुवाच श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः । । ४३ आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा । । ४४ एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारकपुरं गत्वा मोदते नात्र संशयः । । ४५ शतानीक उवाच यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! । नेच्छामि श्रोतुं विप्रेन्द्र! ३ श्रुतान्येतानि हि द्विज! । । ४६ त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु । । ४७ चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये । । ४८ विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम! । । ४९ ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः । । 1.1.५० शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो । धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् । । ५१ आगमेन विहीना हि अहो कष्टं मतं मम् । कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । । त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः । । ५२ सुमन्तुरुवाच साधु साधु महाबाहो! शृणु मे परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । । ५३ धर्मशास्त्राणि १ राजेन्द्र! शृणु तानि नृपोत्तम । विशेषतश्च शूद्राणां पावनानि मनीषिभिः । । ५४ अष्टादशपुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये । । ५५ तथोक्तं भारतं वीर! पाराशर्येण धीमता । वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो! । । ५६ कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् । । ५७ अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् । । ५८ यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया । प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते । । ५९ याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा । सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा । । 1.1.६० एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ६१ तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् । आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् । । ६२ दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् । । ६३ चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ६४ एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा । । ६५ चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम । । ६६ शतानीक उवाच भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु । रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः । । ६७ पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत । पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे । । ६८ सुमन्तुरुवाच साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद । शृणु मे वदतो राजन् पुराणं नवमं महत् । । ६९ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप । अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः । । 1.1.७० इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् । विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः
७१ शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । । श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन
७२ देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम । श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः । । ७३ श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन । ७४ इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः । मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते । । ७५ शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः । मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो । । ७६ श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम । स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः । । ७७ स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप । पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति । । ७८ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततमिदं निःश्रेयसं परम् । । ७९ अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः । । 1.1.८० आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । । ८१ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः । । ८२ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् । । ८३ अन्ये च मानवा राजन्नाचारं संश्रिता सदा । एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् । । ८४ वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः । त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । । श्रवणं चेतिहासस्य विधानं कथ्यते नृप । । ८५ तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु । व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः । । ८६ दारादिगमनं चैव विवाहानां च लक्षणम् । पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते । । ८७ महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् । पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् । । ८८ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च । । ८९ स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च । राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः । । 1.1.९० माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते । । ९१ महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते । । ९२ संक्षिप्तं १ संविधानं च धर्मं स्त्रीपुंसयोरपि । विभागं धर्मद्यूतं च कथकानां च शोधनम् । । ९३ वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । ९४ संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् । वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप । । ९५ लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् । संसारगमनं चैव त्रिविधं कर्मसम्भवम् । । ९६ नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम् । । ९७ प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप । जातिधर्मान्कुलधर्मान्वेदधर्मांश्च १ पार्थिव । । ९८ वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः । ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने । । ९९ शंकरेण तथा विष्णोः कथितं कुरुनन्दन । विष्णुनापि पुनः प्रोक्तं नारदाय महीपते । । 1.1.१०० नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः । पराशरात्ततो व्यासो व्यासादपि मया विभो । । १०१ एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् । शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम् । । १०२ सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ । द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः । । १०३ पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष । यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन । । १०४ स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि । भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम्
१०५ तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् । ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम् । । १०६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राहमे पर्वणि कथाप्रस्तावने प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च सुमन्तुरुवाच शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् । यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया । । १ पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा । प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् । । २ तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते । पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम् । । ३ एतानि तात पर्वाणि लक्षणानि निबोध मे । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । । ४ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन । । ५ अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । । ६ आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः । । ७ प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः । यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम् । । ८ जगदासीत्पुरा तात तमोभूतमलक्षणम् । अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः । । ९ ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् । महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः
1.2.१० योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः । । ११ योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः । भास्करश्च महाबाहो परं ब्रह्म च कथ्यते । । १२ सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अत एव ससर्जादौ तासु वीर्यमवासृजत् । । १३ यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् । बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते । । १४ वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा । तदण्डमभवद्धैमं ज्वालामालाकुलं विभो । । १५ यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः । । १६ क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा । पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते । । १७ सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा
अथ तृतीयोऽध्यायः गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च शतानीक उवाच जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः । आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम । । १ सुमन्तुरुवाच गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् । । २ बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः । । ३ महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः । शृणुष्वैकमना राजन्यथा सा क्रियते तनुः । । ४ प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । ५ नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव । द्वादश्यामपरे राजन्मासि पूर्णे तथा परे । । ६ अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः । पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते । । ७ मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव । राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते
वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् । धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । । ९ मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् । शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । । 1.3.१० वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् । द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२ चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो । षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३ चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः । प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५ द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् । ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६ बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि । अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन । । १७ आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते । द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः । । १८ अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः । । १९ न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् । ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह । । 1.3.२० भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च । कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप । । २१ वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु । ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च । । २२ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी । । २३ मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च । । २४ कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५ पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु । ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६ वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् । पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि । । २७ दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् । केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । । २८ ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः । ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः । । २९ अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः । प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् । । 1.3.३० सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि । भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । । ३१ भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् । मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । । ३२ भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् । सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् । । ३३ समाहृत्य ततो भैक्ष्यं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । ३४ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं १ भुङ्क्ते उदङ्मुखः । । ३५ उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः । भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । ३६ तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् । दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत। । ३७ अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् । पूजितं त्वशनं नित्यं बलमोजश्च यच्छति। । ३८ अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्
नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा । । ३९ यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम । विनाशं याति स नर इह लोके परत्र च । । यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४० शतानीक उवाच स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम । किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१ सुमन्तुरुवाच पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे । धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२ निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् । सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । । आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम्
सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । । ५८ न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् । न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । । ५९ प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् । नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६० वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत । सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१ पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे । देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद । । ६२ प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते । अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । । ६३ ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः । कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् । । ६४ तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि । । ६५ देवार्चाबलिहरणं प्रविक्षपणमेव च । एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह । । ६६ अन्ननिर्वपणं राजंस्तथा सपवनं १ नृप । लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् । । ६७ कमण्डलूपस्पर्शनं दधिप्राशनमेव च । सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः । । ६८ पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता । ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । । ६९ २घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः । त्रिः कृत्वा यः पिबेदापो मुखशब्दविवर्जितः । । 1.3.७० शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् । प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । । ७१ यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत । यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । । ७२ प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः । अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३ इतिहासपुराणानि यद्द्वितीयं प्रमार्जति । यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः । । ७४ तेन प्रीणाति वै रुद्रं शिखामालभ्य वै ऋषीन् । यदक्षिणी चालभते रविः प्रीणाति तेन वै । । ७५ नासिकालम्भनाद्वायुं प्रीणात्येव न संशयः । यच्छ्रोत्रमालभेद्विप्रो दिशः प्रीणाति तेन वै । । ७६ यमं कुबेरं वरुणं वासवं चाग्निमेव च । यद्बाहुमन्वालभते एतान्प्रीणाति तेन १ वै । । ७७ यन्नाभिमन्वालभते प्राणानां ग्रन्थिमेव च । तेन प्रीणाति राजेन्द्र इतीयं वैदिकी श्रुतिः । । ७८ अभिषिञ्चति यत्पादौ विष्णुं प्रीणाति तेन वै । यद्भूम्याच्छादकं वारि विसर्जयति मानद । । ७९ वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत । यद्बिन्दवोऽन्तरे भूमौ पतन्तीह नराधिप । । 1.3.८० भूतग्रामं ततस्तस्तु प्रीणन्तीह चतुर्विधम् । अङ्गुष्ठेन प्रदेशिन्या लभेत चाक्षिणी नृप । । ८१ अनामिकाङ्गुष्ठिकाभ्यां नासिकामालभेन्नृप । मध्यमाङ्गुष्ठाभ्यां मुखं संस्पृशेद्भरतर्षभ । । ८२ कनिष्ठिकाङ्गुष्ठकाभ्यां कर्णमालभते नृप । अङ्गुलीभिस्तथा बाहुमङ्गुष्ठेन तु मङ्गलम् । । ८३ thumb|300px|अङ्गुलयः thumb|300px|पुराणेषु अङ्गुलिविन्यासः thumb|300px|सामवेदे अङ्गुलिविन्यासः नाभिं कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव च । अङ्गुष्ठोग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी । । ८४ अनामिका तथा सूर्यः कनिष्ठा माघवा विभो । प्रजापतिर्मध्यमा ज्ञेया तस्माद्भरतसत्तम । । ८५ एवमाचम्य विप्रस्तु प्रीणाति सततं जगत् । सर्वाश्च देवतास्तात लोकांश्चापि न संशयः । । ८६ तस्मात्पूज्यः सदा विप्रः सर्वदेवमयो हि सः । ब्राह्मेण विप्रतीर्थेन नित्यकालमुपस्पृशेत् । । ८७ कायत्रैदेशिकाभ्यां वा न पित्र्येण कदाचन । हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । । ८८ वैश्योद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः । उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधः । । ८९ सव्येन प्राचीनावीती निवीती कण्ठसंज्ञिते । मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । । 1.3.९० अस्तु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित् । उपवीत्याचमेन्नित्यमन्तर्जानु महीपते । । ९१ एवं तु विप्रो ह्याचान्तः शुचितां याति भारत । यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत । । ९२ गङ्गाद्याः सरितः सर्वा ज्ञेया भारतसत्तम । यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै । । ९३ सर्वदेवमयो राजन्करो विप्रस्य दक्षिणः । हस्तोपस्पर्शनविधिस्तवाख्यातो महीपते । । ९४ एषु सर्वेषु लोकेषु येनाचान्तो दिवं व्रजेत् । । ९५ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वण्युपस्पर्शनविधिवर्णनं नाम तृतीयोऽध्यायः
प्रणवार्थसावित्रीमाहात्म्योपनयनविधिवर्णनञ्च सुमन्तुरुवाच केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्र्यधिके ततः । । १ अमन्त्रिका सदा कार्या स्त्रीणां चूडा महीपते । संस्कारहेतोः कायस्य यथाकालं विभागशः । । २ वैवाहिको विधिः स्त्रीणां संस्कारो नैगमः स्मृतः । निवसेद्वा गुरोर्वापि गृहे वाग्निपरिक्रिया । । ३ एष ते कथितो राजन्नौपनायनिको विधिः । द्विजातीनां महाबाहो उत्पत्तिव्यञ्जकः परः । । ४ कर्मयोगमिदानीं ते कथयामि महाबल । उपनीय गुरुः शिष्यं प्रथमं शौचमादिशेत् । । ५ आचारमग्निकार्यं च सन्ध्योपासनमेव च । अध्यापयेत्तु सच्छिष्यान्सदाचान्त उदङ्मुखः । । ६ ब्रह्माञ्जलिकरो नित्यमध्याप्यो विजितेन्द्रियः । लघुवासास्तथैकाग्रः सुमना सुप्रतिष्ठितः । । ७ ब्रह्मारम्भेऽवसाने च पादौ पूज्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । ८ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । । ९ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति वारयेत् । । 1.4.१० ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते । । ११ श्रूयतां चापि राजेन्द्र यथोङ्कारं द्विजोऽर्हति । प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । । १२ प्राणायामैस्त्रिभिः पूतस्ततस्त्वोङ्कारमर्हति । ॐकारलक्षणं चापि शृणुष्व कुरुनन्दन । । १३ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्तु निर्गृह्य भूर्भुवः स्वरितीति च । । १४ त्रिभ्य एव तु वेदेभ्यः पादंपादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । १५ एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । सन्ध्ययोरुभयोर्विप्रो वेद पुण्येन युज्यते । । १६ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । १७ एतयर्चा विसंयुक्तः काले च क्रियया स्वया । विप्रक्षत्रियविड्योनिर्गर्हणां याति साधुषु । । १८ शृणुष्वैकमना राजन्परमं ब्रह्मणो मुखम् । ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । । १९ त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् । योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । । 1.4.२० स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् । एकाक्षरं परं ब्रह्म प्राणायामः परन्तप । । २१ सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते । तपः किया होमक्रिया तथा दानक्रिया नृप । । २२ अक्षयान्ताः सदा राजन्यथाह भगवान्मनुः । अवरं स्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २३ विधियज्ञात्सदा राजञ्जपयज्ञो विशिष्यते । नानाविधैर्गुणोद्देशैः सूक्ष्माख्यातैर्नृपोत्तम । । २४ पांशुः स्याल्लक्षगुणः सहस्रो मानसः स्मृतः । ये पाकयज्ञाश्चत्वारो विधियज्ञेन चान्विताः । । २५ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् । जपादेव तु संसिध्येद्द्ब्राह्मणो नात्र संशयः । । २६ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । । २७ पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । दिनस्यादौ भवेत्पूर्वा शर्वर्यादौ तथा परा । । २८ सनक्षत्रा परा ज्ञेया अपरा सदिवाकरा । जपंस्तिष्ठन्परां सन्ध्यां नैशमेनो व्यपोहति । । २९ अपरां तु समासीनो मलं हन्ति दिवाकृतम् । नोपतिष्ठति यः पूर्वां नोपास्ते पश्चिमां नृप । । 1.4.३० स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । अपां समीपे नियतो नैत्यकं विधिमास्थितः । । ३१ सावित्रीमप्यधीयीत गत्याऽरण्यं समाहितः । वेदोपकरणे राजन्स्वाध्याये चैव नैत्यके । । ३२ नात्र दोषोस्त्यनध्याये होममन्त्रेषु वा विभो । नैत्यके नास्त्वनध्यायो ब्रह्मसत्रं हि तत्कृतम् । । ३३ ब्रह्माहुतिहुतं पुष्यमनध्यायवषट्कृतम् । ऋगेकां यस्त्वधीयीत विधिना नियतो द्विजः । । ३४ तस्य नित्यं क्षरत्येषा पयो मेध्यं घृतं मधु । अग्निशुश्रूषणं भैक्षमधः शय्यां गुरोर्हितम् । । ३५ आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः । आचार्यपुत्रशुश्रूषां ज्ञानदो धार्मिकः शुचिः । । ३६ आप्तः शक्तोन्नदः साधुः स्वाध्याप्या दश धर्मतः । नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । । ३७ जानन्नपि हि मेधावी जडवल्लोक आचरेत् । अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । । ३८ तयोरन्यतरः प्रैति विद्वेषं वा निगच्छति । धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा । । न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे । । ३९ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामीरिणे वपेत् । ।1.4.४ ० विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मा प्रादास्तथा स्यां वीर्यवत्तमा । ।४ १ शेवं सुखमुशन्तीह केचिज्ज्ञानं प्रचक्षते । तौ धारयति वै यस्माच्छेवधिस्तेन सोच्यते । ।४२ यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । ।४ ३ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । । ४४ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । स याति नरकं घोरं रौरवं भीमदर्शनम् । । ४५ अणुमात्रात्मकं देहं षोडशार्धमिति स्मृतम् । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । । ४६ सावित्रीसारमात्रोऽपि वरो विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । ४७ शय्यासनेध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् । । ४८ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । ४९ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्यग्वर्धन्ते आयुः प्रज्ञा यशो बलम् । । 1.4.५० अभिवादपरो विप्रो ज्यायांसमभिवादयेत् । असौ नामाहमस्मीति स्वनाम परिकीर्तयेत् । । ५१ नामधेयस्य ये केचिदभिवादं न जानते । तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च । । ५२ भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोभिवादने । नाम्नः स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः । । ५३ आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । ५४ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः । । ५५ अभिवादे कृते यस्तु न करोत्यभिवादनम् । आशीर्वा कुरुशार्दूल स याति नरकं ध्रुवम् । । ५६ अभीति भगवान्विष्णुार्वादयामीति शङ्करः । द्वावेव पूजितौ तेन यः करोत्यभिवादनम् । । ५७ ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८ न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९ परपत्नी तु या राजन्नसम्बद्धा तु योनितः । वक्तव्या भवतीत्येवं सुभगे भगनीति च । । 1.4.६० पितृव्यान्मातुलान्राजञ्छ्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात्प्रत्युत्थाय जघन्यजः । । ६१ मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा । सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया । । ६२ ज्येष्ठस्य भ्रातुर्या भार्या सवर्णाहन्यहन्यपि । २पूजयन्प्रयतो विप्रो याति विष्णुसदो नृप । । ६३ प्रवासादेत्य सम्पूज्या ज्ञातिसम्बन्धियोषितः । पितुर्या भगिनी राजन्मातुश्चापि विशाम्पते । । ६४ आत्मनो भगिनी या च ज्येष्ठा कुरुकुलोद्वह । सदा स्वमातृवद्धृत्तिमातिष्ठेद्भारतोत्तम । । ६५ गरीयसी ततस्ताभ्यो माता ज्ञेया नराधिप । पुत्रमित्रभागिनेया द्रष्टव्या ह्यात्मना समाः । । ६६ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । अब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु । । ६७ ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ६८ इत्येवं क्षत्रियपिता वैश्यस्यापि पितामहः । प्रपितामहश्च शूद्रस्य प्रोक्तो विप्रो मनीषिभिः । । ६९ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् । । 1.4.७० पञ्चानां त्रिषु वर्गेषु भूयांसि गुणवन्ति च । यस्य स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । । ७१ चक्रिणो दशमीस्थस्य रोगिणो भारिणः १ स्त्रियाः । स्नातकस्य तु राज्ञश्च पन्था देयो वरस्य च । । ७२ एषां समागमे तात पूज्यौ स्नातकपार्थिवौ । आभ्यां समागमे राजन्स्नातको नृपमानभाक् । । ७३ अध्यापयेद्यस्तु शिष्यं कृत्वोपनयनं द्विजः । सरहस्यं सकल्पं च वेदं भरतसत्तम । । तमाचार्यं महाबाहो प्रवदन्ति मनीषिणः । । ७४ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते । । ७५ निषेकादीनि कार्याणि यः करोति नृपोत्तम । अध्यापयति चान्येन स विप्रो गुरुरुच्यते । । ७६ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते । । ७७ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कथञ्चन
७८ उपाध्यायान्दशाचार्यं आचार्याणां शतं पिता । सहस्रेण पितुर्माता गौरवेणातिरिच्यते । । ७९ उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । 1.4.८० कामान्माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते । । ८१ आचार्यस्तस्य तां जातिं विधिद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजरामरा । । ८२ उपाध्यायमादितः कृत्वा ये पूज्याः कथितास्तव । महागुरुर्महाबाहो सर्वेषामधिकः स्मृतः । । ८३ सहस्रशतसंख्योऽसावाचार्याणामिदं मतम् । चतुर्णामपि वर्णानां स महागुरुरुच्यते । । ८४ शतानीक उवाच य एते भवता प्रोक्ता उपाध्यायमुखा द्विजाः । विदिता एव मे सर्वे न महागुरुरेव हि । । ८५ सुमन्तुरुवाच जयोपजीवी यो विप्रः स महागुरुरुच्यते । अष्टादशपुराणानि रामस्य चरितं तथा । । ८६ विष्णुधर्मादयो धर्माः शिवधर्माश्च भारत । कार्ष्णं वेदं पञ्चमं तु यन्महाभारतं स्मृतम् । । ८७ श्रौता १ धर्माश्च राजेन्द्र नारदोक्ता महीपते । जयेति नाम एतेषां प्रवदन्ति मनीषिणः । । ८८ एवं विप्रकदम्बस्य धारकः२ प्रवरः स्मृतः । यस्त्वेतानि समस्तानि पुराणानीह विन्दति । । ८९ भारतं च महाबाहो स सर्वज्ञो मतो नृणाम् । तस्मात्स पूज्यो राजेन्द्र वर्णैर्विप्रादिभिः सदा । । 1.4.९० किं त्वया न श्रुतं वाक्यं यदाह भगवान्विभुः । अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । । तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया
९१ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः
स्त्रीणां शुभाशुभलक्षणवर्णनम् सुमन्तुरुवाच षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव च । । १ वेदानधीत्य वेदौ वा वेदं वापि नृपोत्तम । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् । । २ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प १ आसीनमर्हयेत्प्रथमं गवा । । ३ गुरुणा समनुज्ञातः समावृत्तौ यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ४ शतानीक उवाच लक्षणं द्विजशार्दूल स्त्रीणां वद महामुने । कीदृग्लक्षणसंयुक्ता १ कन्या स्यात्सुखदा नृप । । ५ सुमन्तुरुवाच यदुक्तं ब्राह्मणा पूर्वं स्त्रीलक्षणमनुत्तमम् । श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । । ६ तत्ते वच्मि महाबाहो शृणुष्वैकमना नृप । श्रुतेन येन जानीषे कन्यां शोभनलक्षणाम् । । ७ सुखासीनं सुरश्रेष्ठमभिगम्य महर्षयः । पप्रच्छुर्लक्षणं स्त्रीणां यत्पृष्टोऽहं त्वयाधुना । । ८ प्रणम्य शिरसा देवमिदं वचनमब्रुवन् । भगवन्ब्रूहि नः सर्वं स्त्रीणां लक्षणमुत्तमम् । । ९ श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । प्रशस्तामप्रशास्तां च जानीमो येन कन्यकाम् । । 1.5.१० तेषां तद्वचनं श्रुत्वा विरिञ्चो वाक्यमब्रवीत् । शृणुध्वं द्विजशार्दूला वच्मि युष्मास्वशेषतः । । ११ प्रतिष्ठिततलौ सम्यग्रताम्भोजसमप्रभौ । ईदृशौ चरणौ धन्यौ योषितां भोगवर्धनौ । । १२ करालैरतिनिर्मासै रूक्षैरर्धशिरान्वितैः । दारिद्र्यं दुर्भगत्वं च प्राप्नुवन्ति न संशयः । । १३ अङ्गुल्यः संहता वृत्ताः स्निग्(?)धाः सूक्ष्मनखास्तथा । कुर्वन्त्यत्यन्तमैश्वर्यं राजभावं च योषितः । । १४ ह्रस्वाः सुजीवितं ह्रस्वा विरला वित्तहानये । दारिद्र्यं मूलमग्नासु प्रेष्यं च पृथुलासु च । । १५ परस्परसमारूढैस्तनुभिर्वृत्तपर्वभिः । बहूनपि पतीन्हत्वा दासी भवति वै द्विजाः । । १६ अङ्गुष्ठोन्नतपर्वाणस्तुङ्गाग्राः कोमलान्विताः । रत्नकाञ्चनलाभाय विपरीता विपत्तये । । १७ सुभगत्वं नखैः स्निग्धैराताम्रैश्च धनाद् यता । पुत्राः स्युरुन्नतैरेभिः सुसूक्ष्मैश्चापि राजता । । १८ पाण्डुरैः स्फुटितै रूक्षैर्नीलैर्धूम्रैस्तथा खरैः
१०८ मत्सकाशात्पुनः श्रुत्वा लक्षणं पुरुषस्य च । यथाधुना भवद्भिस्तु श्रुतं मत्तो द्विजोत्तमाः । । १०९ लक्षणेभ्यः प्रशस्तं तु स्त्रीणां सद्वृत्तमुच्यते । सद्वृत्तमुक्त्वा या स्त्री सा प्रशस्ता न च लक्षणैः । । 1.5.११० ईदृग्लक्षणसम्पन्नां सुकन्यामुद्वहेत्तु यः । ऋद्धिर्वृद्धिस्तथा कीर्तिस्तत्र तिष्ठति नित्यशः । । १११ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणवर्णनं नाम पञ्चमोऽध्यायः
स्त्रीलक्षणसद्वृत्तवर्णनम् शतानीकउवाच सद्वृत्तं श्रोतुमिच्छामि देवस्त्रीणां सुविस्तरात् । उत्तमाधममध्यं च सम्बन्धे स्त्रीकृते यथा । । १ सुमन्तुरुवाच शतानीक महाबाहो ब्रह्मलोके पितामहः । उक्त्वा स लक्षणं स्त्रीणां सद्वृत्तं चोक्तवान्पुनः
२ यथोक्तं ब्रह्मणां तेषामृषीणां कुरुनन्दन । स प्रेयो वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । । ३ शृणुध्वं द्विजशार्दूलाः स्त्रीणां सद्वृत्तमादितः । वक्ष्ये युष्मानशेषं वै लोकानुग्रहकाम्यया । । ४ त्रिवर्गप्राप्तये वक्ष्ये स्त्रीवृत्तं गृहमेधिनाम् । प्राग्विद्यादीनुपादाय तैरर्थांश्च यथाक्रमम् । । विन्देत सदृशीं भार्यां शास्त्रदृष्टेन कर्मणा । । ५ गृहाश्रमो हि निःस्वानां महत्येषा विडम्बना । तस्मात्पूर्वमुपादेयं वित्तमेव गृहैषिणा । । ६ वरं सोढा मनुष्येण तीव्रा नरकवेदना । न त्वेव च गृहे दृष्टं पुत्रदारक्षुधार्दितम् । । ७ असम्भवे शिशुं दृष्ट्वा रुदन्तं प्रार्थनापरम् । वज्रसारमयं मन्ये हदयं यन्न दीर्यते । । ८ साध्वीं भार्यां प्रियां दृष्ट्वा कुचैलां क्षुत्कृशीकृताम् । अस्य दुःखस्य तन्नास्ति सुखं यत्समतां व्रजेत् । । ९ रूक्षान्विवर्णान्क्षुधितान्भूमिप्रस्तरशायिनः । पुत्रदारान्निजान्दृष्ट्वा किमकार्यं भवेन्नृणाम् । । 1.6.१० बाहूत्तरीयं क्षुत्क्षामं दृष्ट्वा दीनमुखं सुतम् । मृत्युरेवोत्सवः पुंसां व्यसनं जीवितं द्विजाः । । ११ परिसीदत्स्वपत्येषु दृष्ट्वा दीनमुखो प्रियाम् । वज्रकार्यशरीरास्ते ये न यान्ति सहस्रधा । । १२ तस्मादर्थविहीनस्य पुंसो दारपरिग्रहात् । कुतस्त्रिवर्ग संसिद्धिर्यातनैव हि तस्य सा । । १३ अभार्यस्याधिकारोऽस्ति न द्वितीयाश्रमे यथा । तद्वदर्थविहीनानां सर्वत्र नाधिकरिता । । १४ केचित्त्वपत्यमेवाहुस्त्रिवर्गावाप्तिसाधनम् । पुंसामर्थः कलत्रं च येऽन्ये नीतिविदो विदुः । । १५ धर्मोऽपि द्विविधो यस्मादिष्टापूर्तक्रियात्मकः । स च दारात्मकः सर्वं ज्ञेयमर्थैकसाधनम् । । १६ निजेनापि १ दरिद्रेण लोको लज्जति बन्धुना । परोऽपि हि मनुष्याणामैश्वर्यात्स्वजनायते । । १७ न दरिद्रं समीपेऽपि स्थितवन्तं प्रपश्यति । दूरस्थमपि वित्ताढ्यमादराद्भजते जनः । । १८ तस्मात्प्रयत्नतः पूर्वमर्थमेव प्रसाधयेत । स हि मूलं त्रिवर्गस्य गुणानां गौरवस्य च । । १९ सर्वेऽपि हि गुणा विद्याकुलशीलादयो नृणाम् । सन्ति तस्मिन्नसन्तोऽपि सन्ति सन्तोऽपि नासति । । 1.6.२० शास्त्रं शिल्पं कलाः कर्म यच्चान्यदपि चेष्टितम् । साधनं सर्वमर्थानामर्था धर्मादिसाधनाः । । २१ साधनानां त्रिवर्गोऽस्ति तं विना केवलं नृणाम् । अजागलस्तनस्येव निधनायैव संभवः । । २२ प्राक्पुण्यैर्विपुला सम्पद्धर्मकामादिहेतुजा । भूयो धर्मेण सामुत्र तया३ ताविति ४ च क्रमः. । । २३ एकचक्रकमेतद्धि प्रोक्तमन्योन्यहेतुकम् । पूर्वपश्चिमबाहुभ्यामुत्तराधरमध्यमाः । । २४ विज्ञाय मतिमानेवं यस्त्रिवर्गं निषेवते । संख्याशतसमायुक्तैरवाप्नोत्युत्तरोत्तरम् । । २५ नाभार्यस्याधिकारोऽस्ति त्रिवर्गे निर्धनस्य वा । ना भार्यायामतः पूर्वमर्थमैव प्रसाधयेत् । । २६ तस्मात्क्रमागतैरर्थेः स्वयं वाधिगतैर्युतः । क्रियायोग्यैः समर्थश्च कुर्याद्दारपरिग्रहम् । । २७ अनुरूपे कुले जातां श्रुतवित्तक्रियादिभिः । लभेतानिन्दितां कन्यां मनोज्ञां धर्मसाधनाम् । । २८ पुमानर्धपुमांस्तावद्यावद्भार्यां न विदन्ति । तस्माद्यथाक्रमं काले कुर्याद्दारपरिग्रहम् । । २९ एकचक्रो रथो यद्वदेकपक्षो यथा खगः । अभार्योऽपि १नरस्तद्वदयोग्यः सर्वकर्मसु । । 1.6.३० पत्नीपरिग्रहाद्धर्मस्तथार्थो बहुलाभतः । सत्प्रीतियोगात्कामोऽपि त्रयमस्यां विदुर्बुधाः । । ३१ त्रिधा विवाहसम्बन्धो हीनतुल्याधिकैः सह । तुल्यैः सह समस्तेषामितरौ नीचमध्यमौ । । ३२ असमैर्निन्द्यते सद्भिरुत्तमैः परिभूयते । तुल्यैः प्रशस्यते यस्मात्तस्मात्साधुतमो मतः । । ३३ कृत्वैवाधिकसम्बन्धमपमानं समश्नुते । न चैषामानतिं गच्छेन्नैव नीचैः सहेष्यते
४४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणसद्वृत्तवर्णनं नाम षष्ठोऽध्यायः