उत्तरे चीनदेशान्ते सेतुबंधे तु दक्षिणे
अग्निहोत्रस्य कर्तारो गोब्राह्मणहितैषिणः
द्वापराख्यसमः कालः सर्वत्र परिवर्तते
ग्रामेग्रामे स्थितो देवो देशेदेशे स्थितो मखः 3.3.4.
इति दृष्ट्वा कलिर्घोरो म्लेच्छया सह भीरुकः
द्वादशाब्दमिते काले ध्यानयोगपरोऽभवत्
. तुष्टाव मनसा तत्र राधया सहितं हरिम्
.पाहि मां शरणं प्राप्तं चरणे ते कृपानिधे
सर्वपापहरस्त्वं वै सर्वकालकरो हरिः
द्वापरे पीतरूपश्च कृष्णत्वं मम दिष्टके
चतुर्गेहं च मे स्वामिन्द्यूतं मद्यं सुवर्ण कम्
त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रो जनार्दन
इति श्रुत्वा स भगवान्कृष्णः प्राह विहस्य तम्
ममांशो भूमिमासाद्य क्षयिष्यति महाबलान् 3.3.4.
इत्युक्त्वा भगवान्साक्षात्तत्रैवान्तरधीयत
एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत्
नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह
साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि
तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत
उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत्
आवार्यो वत्सराजश्च शतहस्तिसमो बले
शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः
तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै
ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् 3.3.4.
तदा मैत्री कृता ताभ्यां तालनेन समन्विता
अग्निवर्णनम् यथावेदानुसारेण यथाग्रहण योजनम्
शतार्धे वह्निरुद्दिष्टः शतार्धे काश्यपः स्मृतः
सहस्रे ब्राह्मणो नाम अयुते हरिरुच्यते
वरुणः शांतिके ज्ञेयो मारणे ह्यरुणः स्मृतः
लोहितश्चान्नयज्ञे यो ग्रहाणां प्रत्यनुक्रमात्