सुदर्शनो महाप्राज्ञः काशीराजसुतां नृपः वर्षपञ्चसहस्राणि राज्यं चक्रे स भूपतिः
स्वप्नमध्ये वचः प्रोक्तं महाकाल्या नृपाय वै
हिमालयं गिरिं प्राप्य वासं कुरु महामते
रत्नाकरः पश्चिमोऽब्धिस्तस्य द्वीपाः क्षयं गताः
वाडवोऽब्धिर्दक्षिणे च तस्य द्वीपाः क्षयं गताः
ये द्वीपास्तु सुविख्यातास्तेऽपि सर्वे लयं गताः
सजीवः प्रलयं यायात्तस्मात्त्वं जीवितो भव
प्राप्तवान्मुख्यभूपैश्च मुख्यवैश्यैर्द्विजैः सह
शर्करा च महीं प्राप्तास्ततो जीवाः क्षयं गताः 3.1.1.
शांतो भूत्वा पुनर्वायुर्जलं सर्वमशोषयत्
त्रेतायुगभूपाख्यानवर्णनम् सुदर्शनो जनैः सार्द्धमयोध्यामगमत्पुनः
मायादेवीप्रभावेण पुरं सर्वं मनोहरम्
दशवर्ष सहस्राणि राज्यं कृत्वा सुदर्शनः
नन्दिनीवरदानेन तत्पुत्रो रघुरुत्तमः
राज्यं कृतं च रघुणा दिलीपान्ते पितुस्समम्
विप्रस्य वरदानेन तत्पुत्रोऽज इति स्मृतः
पितुस्तुल्यं कृतं राज्यं तस्माद्रामो हरिः स्वयम्
तस्य पुत्रः कुशो नाम राज्यं दशसहस्रकम्
निबन्धो नाम तत्पुत्रः कृतं राज्यं पितुस्समम्
पितुस्तुल्यं कृतं राज्यं तस्मान्नाभः सुतोऽभवत् 3.1.2.
पितुस्तुल्यं कृतं राज्यं क्षेमधन्वा तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनजः
कुरुक्षेत्रं कृतं तेन त्रेतायां शतयो जनम्
पितुस्तुल्यं कृतं राज्यं पारियात्रः सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं छद्मकारी तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं वज्रनाभिस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं व्युत्थनाभिस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं स्वर्णनाभिस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं ध्रुवसंधिस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं शीघ्रगन्ता तु तत्सुतः 3.1.2.