जपित्वा मार्जनं कृत्वा जीवयामास बालकम्
भोजनं कारयित्वा तु मंत्रं संजीवनं ददौ
प्राप्तवान्यत्र सा नारी दाहिता हरिशर्मणा
दाहितस्तनयः पित्रा शोककर्त्रा तदामुना
गुणाधिपस्य तनयो राज्ञो धर्मस्थलीपतेः
जीवनं दत्तवान्मह्यं वरयाद्य वरं मम 3.2.2.
गृहीत्वास्थि गतस्तीर्थे तमन्वेषय मा चिरम्
प्राप्तस्तं कथयामास यथा प्राप्तं हि जीवनम् ।। इति श्रुत्वा वचस्तस्य केशवोऽस्थिसमन्वितः
प्रगत्यास्थीनि सर्वाणि ददौ तस्मै द्विजातये
योग्या धर्मेण यस्याहं तस्मै प्रायामि धर्मिणे
अतस्त्वं विक्रमादित्य धर्मज्ञ कथयस्व मे
योग्या मधुमती नारी वामनाय द्विजन्मने
प्राणदाता तु यो विप्रः पितेव गुणतत्परः
वैतालो भूपतिश्रेष्ठं पुनर्विक्रममब्रवीत्
वर्द्धवन्नगरे रम्ये नानाजननिषेविते
विद्वन्माला प्रिया तस्य पतिसेवापरायणा
पुत्रकन्यासपत्नीको वृत्त्यर्थं समुपागतः
किंचिच्छ्रुत्वा ददौ स्वर्णं सहस्रं प्रत्यहं नृप
व्ययं कृत्वा तु तच्छेषं स कुल्ये भुक्तवान्स्वयम्
परीक्षार्थं स्मशाने च रोदनं बहु कुर्वती
गच्छ वीरवर त्वं वै यतोऽसौ श्रूयते रवः
इति श्रुत्वा वीरवरः शस्त्रास्त्रकुशलो बली
श्लक्ष्णं वचश्च तामाह किमर्थं रोदने स्थिता 3.2.3.
इति श्रुत्वा राजलक्ष्मीर्वीरसेनं तमब्रवीत्
मासान्ते प्रलयं यास्ये तस्माच्छोचामि भो बलिन् केन पुण्येन दीर्घायुस्त्वं भवेः कारणं वद
दीर्घायुर्भविता चाहं स्वामिकार्यं प्रसाधय
इति श्रुत्वा वीरवरो मंदिरं स्वयमागतः
तथेत्युक्त्वा तु सा साध्वी तनयं प्राह निर्भया
तथा मत्वा तु तत्पुत्रो भगिन्या मातृसंयुतः
भोस्तात मे कपालं च चंडिकायै समर्पय