स तु सत्यनिधिः पूर्वं ब्रह्मणस्तप आस्थितः राजगेहे करस्तस्मात्सधनस्य लयं गतः
चर्मकारगृहे जातो द्वितीयः पिंगलापतिः
पुरीं काशीं समागम्य कबीरं रामतत्परम्
तयोर्विवादो सभवदहोरात्रं मतान्तरे रामानन्दमुपागम्य तस्य शिष्यत्वमागतः
इति ते कथितं विप्र सुरांशाश्च यथाभवन्
शतद्वादशमर्यादो द्वापरस्य समो भुवि
अस्मिन्काले महाभाग लीला भगवता कृता
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
भविष्याख्ये महाकल्पे प्राप्ते वैवस्वतेन्तरे
पांडवैर्निर्जिताः सर्वे कौरवाः युद्धदुर्मदाः
दिनान्ते भग वान्कृष्णो ज्ञात्वा कालस्य दुर्गतिम्
कालकर्त्रे जगद्भर्त्रे पापहर्त्रे नमोनमः
पांडवान्रक्ष भगवन्मद्भक्तान्भूतभीरुकान् रक्षार्थं शिबिराणां च प्राप्तवाञ्छूलहस्तधृक्
तदा नृपाज्ञया कृष्णः स गतो गजसाह्वयम्
निशीथे द्रौणिभोजौ च कृपस्तत्र समाययुः 3.3.1.
अश्वत्थामा तु बलवाञ्छिवदत्तमसिं तदा
हत्वा यथेष्टमगमद्द्रौणिस्ताभ्यां समन्वितः
पार्षतस्यैव सूतश्च हतशेषो भयातुरः
आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः
अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन्
ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः
पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम्
हरिं शरणमाजग्मुरपराधनिवृत्तये
तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः
शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै 3.3.1.
इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते
तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः
वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः
भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति
अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः