यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम्
संहतौ तु दितिर्ज्ञात्वा कश्यपं समपूजयत्
द्वादशाब्दांतरे स्वामी कश्यपो भगवानृषिः सा तु श्रुत्वा नमस्कृत्य वचनं प्राह हर्षिता
अदितिर्मम या देवी सपत्नी पुत्रसंयुता
तदवर्यसुते नैव विष्णुना सुरपालिना
देहि मे तनयं स्वामिन्द्वादशादित्यनाशनम्
ब्रह्मणा निर्मितौ लोके धर्माधर्मौ परापरौ
अधर्मपक्षास्तु नरा वैरिणस्तस्य धीमतः
अतो धर्मप्रिये शुद्धं कुरु तस्मान्महाबलः
इति श्रुत्वा दितिर्देवी कश्यपाद्गर्भमुत्तमम्
तस्या गर्भगते पुत्रे महेन्द्रश्च भयान्वितः 3.4.17.
सप्तमासि स्थिते गर्भे शक्रमायाविमोहिता
अंगुष्ठमात्रो भगवान्महेन्द्रो वज्रसंयुतः
जीवभूतानतिबलान्दृष्ट्वा सप्त महारिपून्
नम्रीभूतश्च तान्दृष्ट्वा महेन्द्रस्तैः समन्वितः
प्रसन्ना सा दितिर्देवान्महेन्द्राय च तान्ददौ
इलो नाम स वेदज्ञो यथेलो नृपतिस्तदा
एकदा बलवान्राजा मनुपुत्र इलः स्वयम्
मेरोरधः स्थितः खण्डः स्वर्णगर्भो हरिप्रियः
इलेनावृतमेवापि कृतं तत्र स्थले सुराः
भारते ये स्थिता लोका इलावृतमुपागताः 3.4.17.
आरोहणं नरैस्तस्मित्कृतं स्वर्णमयं शुभम्
तान्दृष्ट्वा मनुजान्प्राप्तान्सदेहान्स्वर्गमण्डले
ज्ञात्वा स भगवान्रुद्रो भवान्या सह शंकरः
एतस्मिन्नन्तरे प्राप्तो वैवस्वतसुतो महान्
नग्नभूतं समालोक्य नेत्रे संमील्य संस्थितः
अस्मिन्खण्डे सदा नार्यो भविष्यंति च मां विना
इला बभूव नृपते कन्या जनमनोहरा
इलासमाधिभूतायाः सप्तविंशच्चतुर्युगम् बुधं देवं पतिं कृत्वा चंद्रवंशमजीजनत्
अयोध्याधिपतिः श्रीमान्यदेलावृतमागतः