खलीनालंकृतमुखं कारयेद्धेमवाजिनम्
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि
संपूज्य कुसुमैः श्वेतैश्चणकान्विनिवेद्य च
इममुच्चारयेन्मंत्रं पुराणोक्तं यतव्रतः
वाजिरूपेण मामस्मात्पाहि संसारसागरात्
प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत्
दत्त्वा पापक्षयाद्भानोर्लोकमाप्नोति शाश्वतम् 4.186.
पुराणश्रवणं तद्वत्कारयेद्भोजनादनु
इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र
इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूपः
यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम्
संहतौ तु दितिर्ज्ञात्वा कश्यपं समपूजयत्
द्वादशाब्दांतरे स्वामी कश्यपो भगवानृषिः सा तु श्रुत्वा नमस्कृत्य वचनं प्राह हर्षिता
अदितिर्मम या देवी सपत्नी पुत्रसंयुता
तदवर्यसुते नैव विष्णुना सुरपालिना
देहि मे तनयं स्वामिन्द्वादशादित्यनाशनम्
ब्रह्मणा निर्मितौ लोके धर्माधर्मौ परापरौ
अधर्मपक्षास्तु नरा वैरिणस्तस्य धीमतः
अतो धर्मप्रिये शुद्धं कुरु तस्मान्महाबलः
इति श्रुत्वा दितिर्देवी कश्यपाद्गर्भमुत्तमम्
तस्या गर्भगते पुत्रे महेन्द्रश्च भयान्वितः 3.4.17.
सप्तमासि स्थिते गर्भे शक्रमायाविमोहिता
अंगुष्ठमात्रो भगवान्महेन्द्रो वज्रसंयुतः
जीवभूतानतिबलान्दृष्ट्वा सप्त महारिपून्
नम्रीभूतश्च तान्दृष्ट्वा महेन्द्रस्तैः समन्वितः
प्रसन्ना सा दितिर्देवान्महेन्द्राय च तान्ददौ
इलो नाम स वेदज्ञो यथेलो नृपतिस्तदा
एकदा बलवान्राजा मनुपुत्र इलः स्वयम्
मेरोरधः स्थितः खण्डः स्वर्णगर्भो हरिप्रियः
इलेनावृतमेवापि कृतं तत्र स्थले सुराः