कलौ तदर्द्धकं ज्ञेयं नृणामायुः पुरातने
भौम मन्वंतरे चैव सत्ये तुर्यसहस्रकम्
कलौ तदर्द्धकं ज्ञेयं नरायुश्चार्षसम्मतम्
त्रेतायां त्रिशताब्दं च द्वापरे तु तदर्द्धकम्
मन्वंतरे तु यन्नाम्ना भूपाश्चासंश्चतुर्युगे
एवमन्यत्र वै ज्ञेयं युगे तुर्ये मनौ मनौ
युगांते कर्मभूमेश्च लयः कल्पः स वै स्मृतः
पुराण पुरुषस्यैव दिनान्ते प्रलयो हि यः
षड्विंशत्कल्पसाहस्रैर्महाकल्पो हि यः स्मृतः 3.4.25.
तदा ब्रह्मा सुरैः सार्द्धं भूपं स्वायंभुवं गतः
स्वायंभुवमनोर्मध्ये वाराहोऽभूत्स वै भुवि
स्वारोचिषमनोरन्ते नृसिंहोऽभूत्स वै भुवि
तदौत्तममनोर्मध्ये रुद्रोऽभूत्सगणो भुवि
तामसान्तेऽभवन्मत्स्यः स वै भुवि सनातनः
वैवस्वतमनोर्मध्ये कृष्णोभूद्भुवि स प्रभुः
रैवतान्तेऽभवत्कूर्मः स वै भुवि सनातनः
चाक्षुषान्ते जामदग्न्योऽभवद्रामः स वै भुवि
वैवस्वतमनोरादौ वामनोऽभूत्स वै भुवि
वैवस्वतमनोर्मध्ये कल्की नाम्नाहमागतः 3.4.25.
सावर्णिकादौ भविता बुद्धो नाम्ना स वै भुवि
वैवस्वतमनोर्मध्ये रामो दाशरथिर्भुवि
सर्वपूज्यावतारश्च न भवेद्वै कदाचन
त्रयोऽवताराः कथितास्तथा नान्यच्चतुर्युगे
द्वापरस्य तथा कृष्णः शेषेण सह वै भुवि
अतः खंडः पवित्रोऽयं नृणां पातकनाशनः
जन्म प्रभृति पापानि तस्य नश्यंति नान्यथा
द्वितीयो यो महाकल्पो विष्णुकल्पः स वै स्मृतः
शतकोटिप्रविस्तारो विष्णुपौराणिकस्य वै
पूर्वार्द्धाद्भगवान्ब्रह्मा .सर्वदेवसमन्वितः 3.4.25.
तृतीयो यो महाकल्पः शिवकल्पः स वै स्मृतः