नृणामायुः सत्ययुगे त्रेतायां च तदर्द्धकम्
रैवतान्तरके चैव सत्ये त्रिंशत्सहस्रकम्
कलौ चाष्टशताब्दायुर्नृणां वेदैः प्रकीर्तितम्
त्रेतायां त्रिसहस्राब्दं द्वापरे द्विसहस्रकम्
वैवस्वतेन्तरे चैव सत्ये तुर्यसहस्रकम्
कलौ शताब्दकं प्रोक्तमायुर्वेदैस्तथा नृणाम्
आयुः सत्ये तदर्द्धं तु त्रेतायां च प्रकीर्तितम्
ब्रह्मसावर्णिके चैव सत्ये दशसहस्रकम्
कलौ चैव तदर्द्धाब्दं नृणामायुः प्रकीर्तितम् 3.4.25.
रुद्रसावर्णिके चैव सत्ये चाष्टसहस्रकम्
कलौ तदर्द्धकं ज्ञेयं नृणामायुः पुरातने
भौम मन्वंतरे चैव सत्ये तुर्यसहस्रकम्
कलौ तदर्द्धकं ज्ञेयं नरायुश्चार्षसम्मतम्
त्रेतायां त्रिशताब्दं च द्वापरे तु तदर्द्धकम्
मन्वंतरे तु यन्नाम्ना भूपाश्चासंश्चतुर्युगे
एवमन्यत्र वै ज्ञेयं युगे तुर्ये मनौ मनौ
युगांते कर्मभूमेश्च लयः कल्पः स वै स्मृतः
पुराण पुरुषस्यैव दिनान्ते प्रलयो हि यः
षड्विंशत्कल्पसाहस्रैर्महाकल्पो हि यः स्मृतः 3.4.25.
तदा ब्रह्मा सुरैः सार्द्धं भूपं स्वायंभुवं गतः
स्वायंभुवमनोर्मध्ये वाराहोऽभूत्स वै भुवि
स्वारोचिषमनोरन्ते नृसिंहोऽभूत्स वै भुवि
तदौत्तममनोर्मध्ये रुद्रोऽभूत्सगणो भुवि
तामसान्तेऽभवन्मत्स्यः स वै भुवि सनातनः
वैवस्वतमनोर्मध्ये कृष्णोभूद्भुवि स प्रभुः
रैवतान्तेऽभवत्कूर्मः स वै भुवि सनातनः
चाक्षुषान्ते जामदग्न्योऽभवद्रामः स वै भुवि
वैवस्वतमनोरादौ वामनोऽभूत्स वै भुवि
वैवस्वतमनोर्मध्ये कल्की नाम्नाहमागतः 3.4.25.
सावर्णिकादौ भविता बुद्धो नाम्ना स वै भुवि