पक्षमात्र मभूद्युद्धं दिव्यं दानवदेवयोः
अघासुरोऽर्यमा चैव बलः शक्रस्तथैव च
वत्सासुरो भगश्चैव विवस्वांश्च बलिः स्वयम्
विश्वकर्मा मयश्चैव कालनेमिर्हरिः स्वयम् पराजिताश्च ते दैत्या युद्धं त्यक्त्वा प्रदुद्रुवुः
विवस्वाँश्च तदा संज्ञां गृहीत्वा रथसंस्थिताम् 3.4.18.
विवस्वंतं सुरश्रेष्ठं दृष्ट्वा संज्ञा वचोऽब्रवीत्
त्वया जिताहं भगवन्बलेर्विप्रियकारिणः
वीरभुक्ता सदा नारी स्त्रीरत्नं मुनिभिः स्मृतम् एका सा प्रकृतिर्माता गुणसाम्यात्सनातनी
सत्त्वभूता च भगि नी रजोभूता च गेहिनी
बहवः पुरुषा ये वै निर्गुणाश्चैकरूपिणः
अलोके पापजास्सर्वे देवब्रह्मसमुद्भवाः कोऽपि पुत्रः पिता भ्राता स च तस्याः पतिर्भवेत्
स्वकीयां च सुतां ब्रह्मा विष्णुदेवः स्वमातरम्
इति श्रुत्वा वेदमयं वाक्यं चादितिसंभवः
सुताः कन्यास्तयोर्जाता मनुर्वैवस्वतस्तथा
तदा संज्ञा सती साक्षात्तेजोभूतं पतिं स्वकम् 3.4.18.
सावर्णिश्च मनुस्तस्यां शनिश्च तपती तथा
पुत्रभेदेन तां नारीं मत्वा मायां रुषान्वितः
तदा शनिश्च सावर्णिर्विवस्वतं रुषान्वितम्
कियतो चैव कालेन भग्नभूतौ विवस्वता
त्रिवर्षान्ते च सा देवी महाकाली समागता
पुनस्तौ च समागम्य युयुधाते विवस्वता
तत्र स्थिता प्रिया संज्ञा वडवारूपधरिणी
गत्वा ददर्श भगवान्सज्ञां संबोधकारिणीम्
पंचवर्षान्तरे संज्ञा गर्भं तस्माद्दधौ स्वयम्
पितुर्दुःखं समालोक्य जग्मतू रविमण्डलम् 3.4.18.
बद्ध्वा तौ स्वपितुः पार्श्वम संप्राप्तौ वडवासुतौ
संपीड्य ताडयामास लोहदंडैर्भयानकैः
आश्विनेयौ समालोक्य वचनं प्राह तौ मुदा एकनाम्ना युवां प्रीतौ नासत्यौ च भविष्यथः
सोमशक्तिरिडादेवी ज्येष्ठपत्नी भविष्यति
इडापतिस्स वै नाम द्वितीयः पिंगलापतिः तस्य शान्तिकरो ज्येष्ठो भविष्यति महीतले