पावका ऊनपंचाशद्वायवश्च तथा स्मृताः
त्रयोदश च प्रत्यूषाः प्राप्ता विश्वप्ररक्षकाः
भवाद्याश्च तदाः रुद्राः शशिमण्डलरक्षकाः
दानवा विप्रचित्त्याद्याश्चतुराशीतिराययुः
शेषाद्याश्च तदा नागास्तार्क्ष्याद्या गरुडाः स्मृताः 3.4.18.
एतस्मिन्नंतरे देवी देवकन्यासमन्विता
तां समालोक्य बलवान्बलिः कामविमोहितः
तदा क्रोधातुरा देवा रुरुधुर्दैत्यसत्तमम्
दानवाश्च तदा दैत्या नानावाहनसंस्थिताः
दानवैश्च हता देवाः सुरैर्दैत्या विनाशिताः
पक्षमात्र मभूद्युद्धं दिव्यं दानवदेवयोः
अघासुरोऽर्यमा चैव बलः शक्रस्तथैव च
वत्सासुरो भगश्चैव विवस्वांश्च बलिः स्वयम्
विश्वकर्मा मयश्चैव कालनेमिर्हरिः स्वयम् पराजिताश्च ते दैत्या युद्धं त्यक्त्वा प्रदुद्रुवुः
विवस्वाँश्च तदा संज्ञां गृहीत्वा रथसंस्थिताम् 3.4.18.
विवस्वंतं सुरश्रेष्ठं दृष्ट्वा संज्ञा वचोऽब्रवीत्
त्वया जिताहं भगवन्बलेर्विप्रियकारिणः
वीरभुक्ता सदा नारी स्त्रीरत्नं मुनिभिः स्मृतम् एका सा प्रकृतिर्माता गुणसाम्यात्सनातनी
सत्त्वभूता च भगि नी रजोभूता च गेहिनी
बहवः पुरुषा ये वै निर्गुणाश्चैकरूपिणः
अलोके पापजास्सर्वे देवब्रह्मसमुद्भवाः कोऽपि पुत्रः पिता भ्राता स च तस्याः पतिर्भवेत्
स्वकीयां च सुतां ब्रह्मा विष्णुदेवः स्वमातरम्
इति श्रुत्वा वेदमयं वाक्यं चादितिसंभवः
सुताः कन्यास्तयोर्जाता मनुर्वैवस्वतस्तथा
तदा संज्ञा सती साक्षात्तेजोभूतं पतिं स्वकम् 3.4.18.
सावर्णिश्च मनुस्तस्यां शनिश्च तपती तथा
पुत्रभेदेन तां नारीं मत्वा मायां रुषान्वितः
तदा शनिश्च सावर्णिर्विवस्वतं रुषान्वितम्
कियतो चैव कालेन भग्नभूतौ विवस्वता
त्रिवर्षान्ते च सा देवी महाकाली समागता