तदा क्रुद्धा सती सा वै ताञ्छशाप मुनिप्रिया
महादेवस्य वै लिंगं ब्रह्मणोऽस्य महाशिरः भविष्यंति सुरश्रेष्ठा उपहासोऽयमुत्तमः
इति श्रुत्वा वचो घोरं नमस्कृत्य मुनिप्रियाम्
अनसूया तदा प्राह भवन्तो मम पुत्रकाः
इत्युक्ते वचने ब्रह्मा चंद्रमाश्च तदा ह्यभूत् तत्पापपरिहारार्थं योगवन्तो बभूविरे
एतस्मिन्नंतरे देवी प्रकृतिस्सर्व धर्मिणी
मन्वंतरमतो जातं तेषां योगं प्रकुर्वताम् 3.4.17.
उवाच वचनं रम्यं तेषां मंगलहेतवे
रुद्रांशश्चैव दुर्वासाः प्रत्यूषः सप्तमो वसुः तेषां वाक्यं समाकर्ण्य वसवस्ते त्रयोऽभवन्
स्वांशेन भूतलं जग्मुः कलिशुद्धाय दारुणे
पीपा नाम सुतः सोमः सुदेवस्य तदा ह्यभूत्
रामानन्दस्य शिष्योऽभूद्द्वारकां स समागतः वैष्णवेभ्यो ददौ तत्र प्रेततत्त्वविनाशिनीम्
प्रत्यूषश्चैव पांचाले वैश्यजात्यां समुद्भवः
रामानन्दं समागम्य शिष्यो भूत्वा स नानकः
प्रभासो वै शांतिपुरे ब्रह्मजात्यां समुद्भवः इति ते वसुमाहात्म्यं मया शौनक वर्णितम्
अश्विनौ च समालोक्य तयोर्गाथामवर्णयत्
वैवस्वतेऽन्तरे पूर्वं विश्वकर्मा विचित्रकृत् स्पर्द्धाभूतो महामायां तुष्टाव बहुपूजनैः
प्रसन्ना सा तदा देवी चित्रायां तस्य योषिति
षोडशाब्दे वयः प्राप्ते संज्ञायास्तत्पिता सुखी
यक्षाधीशाश्च षड्विंशत्कुबेराद्यास्समागताः
पावका ऊनपंचाशद्वायवश्च तथा स्मृताः
त्रयोदश च प्रत्यूषाः प्राप्ता विश्वप्ररक्षकाः
भवाद्याश्च तदाः रुद्राः शशिमण्डलरक्षकाः
दानवा विप्रचित्त्याद्याश्चतुराशीतिराययुः
शेषाद्याश्च तदा नागास्तार्क्ष्याद्या गरुडाः स्मृताः 3.4.18.
एतस्मिन्नंतरे देवी देवकन्यासमन्विता
तां समालोक्य बलवान्बलिः कामविमोहितः
तदा क्रोधातुरा देवा रुरुधुर्दैत्यसत्तमम्
दानवाश्च तदा दैत्या नानावाहनसंस्थिताः
दानवैश्च हता देवाः सुरैर्दैत्या विनाशिताः