प्रत्यहं स हरेः क्रीडां वृन्दावनमहोत्तमे
यस्य पुत्रविवाहे च भगवान्भक्तवत्सलः
पुरीं काशीं समागम्य नरश्रीभर्क्तराट् स्वयम्
सार्द्धं तपो महत्कुर्वन्ब्रह्मध्यानपरोऽभवत्
तदा ब्रह्मा हरिश्शंभुः स्वस्ववाहनमास्थिताः
इति श्रुत्वा वच स्तेषां स्वयंभूतनयो मुनिः
तस्य भावं समालोक्य त्रयो देवाः सनातनाः 3.4.17.
लिंगहस्तः स्वयं रुद्रो विष्णुस्तद्रसवर्द्धनः रतिं देहि मदाघूर्णे नो चेत्प्राणांस्त्यजाम्यहम्
पतिव्रताऽनसूया च श्रुत्वा तेषां वचोऽशुभम्
मोहितास्तत्र ते देवा गृहीत्वा तां बलात्तदा
तदा क्रुद्धा सती सा वै ताञ्छशाप मुनिप्रिया
महादेवस्य वै लिंगं ब्रह्मणोऽस्य महाशिरः भविष्यंति सुरश्रेष्ठा उपहासोऽयमुत्तमः
इति श्रुत्वा वचो घोरं नमस्कृत्य मुनिप्रियाम्
अनसूया तदा प्राह भवन्तो मम पुत्रकाः
इत्युक्ते वचने ब्रह्मा चंद्रमाश्च तदा ह्यभूत् तत्पापपरिहारार्थं योगवन्तो बभूविरे
एतस्मिन्नंतरे देवी प्रकृतिस्सर्व धर्मिणी
मन्वंतरमतो जातं तेषां योगं प्रकुर्वताम् 3.4.17.
उवाच वचनं रम्यं तेषां मंगलहेतवे
रुद्रांशश्चैव दुर्वासाः प्रत्यूषः सप्तमो वसुः तेषां वाक्यं समाकर्ण्य वसवस्ते त्रयोऽभवन्
स्वांशेन भूतलं जग्मुः कलिशुद्धाय दारुणे
पीपा नाम सुतः सोमः सुदेवस्य तदा ह्यभूत्
रामानन्दस्य शिष्योऽभूद्द्वारकां स समागतः वैष्णवेभ्यो ददौ तत्र प्रेततत्त्वविनाशिनीम्
प्रत्यूषश्चैव पांचाले वैश्यजात्यां समुद्भवः
रामानन्दं समागम्य शिष्यो भूत्वा स नानकः
प्रभासो वै शांतिपुरे ब्रह्मजात्यां समुद्भवः इति ते वसुमाहात्म्यं मया शौनक वर्णितम्
अश्विनौ च समालोक्य तयोर्गाथामवर्णयत्
वैवस्वतेऽन्तरे पूर्वं विश्वकर्मा विचित्रकृत् स्पर्द्धाभूतो महामायां तुष्टाव बहुपूजनैः
प्रसन्ना सा तदा देवी चित्रायां तस्य योषिति
षोडशाब्दे वयः प्राप्ते संज्ञायास्तत्पिता सुखी
यक्षाधीशाश्च षड्विंशत्कुबेराद्यास्समागताः