भूप पुत्रेणार्थसिद्धं कृतं तस्माच्च भूपतेः
रजोवतीं सुतां दृष्ट्वा न विवाहेत यो नरः
गांधर्वं च विवाहं वै कामिन्या च कृतं यया
अदृष्टदोषां यः कन्यां विवेकेन विना त्यजेत्
इति श्रुत्वा? स वैतालो धर्मगाथां नृपेरिताम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये नाम प्रथमोऽध्यायः
द्विजवर्यः स वैतालो वचः प्राह प्रसन्नधीः
एकदा यमुनातीरे धर्मस्थलपुरी शुभा
गुणाधिपो महीपालस्तत्र राज्यं चकार वै
तस्य पत्नी सुशीला च पतिव्रतपरायणा
तस्यानुजा मधुमती शीलरूपगुणान्विता
भ्राता? बभ्राम तौ सर्वं चिनुतश्च सुतावरम्
पठनार्थे तु काश्यां वै सत्त्वशीलः स्वयं गतः
वामनो नाम विख्यातो रूपशीलवयोवृतः
भोजनं छादनं पानं स्वप्नं त्यक्त्वा च विह्वला
दृष्ट्वा सुशीला तं बाला वामनं ब्राह्मणं तथा 3.2.2.
हरिशर्मा प्रयोगे च द्विजं दृष्ट्वा त्रिविक्रमम्
सत्यशीलस्तु काश्यां वै गुरुपुत्रं च केशवम्
माघकृष्णत्रयोदश्यां भृगौ लग्नं शुभं स्मृतम्
तस्मिन्काले तु सा कन्या भुजगेनैव दंशिता
तदा ते ब्राह्मणा यत्नं कारयामासुरुत्तमम्
हरिशर्मा तु तत्सर्वं कृत्वा वेदविधानतः
त्रिविक्रमस्तु बहुधा दुःखं कृत्वा स्मरानुगः
केशवस्तु महादुःखी प्रियास्थीनि गृहीतवान्
भस्मग्राही वामनस्तु विरहाग्निप्रपीडितः
एकदा सरयूतीरे लक्ष्मणाख्यपुरे शुभे 3.2.2.
तस्मिन्दिने रामशर्मा शिवध्यानपरायणः
तस्य पत्नी विशालाक्षी रचित्वा बहुभोजनम्
तस्मिन्काले च तद्बालो मृतः पापवशंगतः
न रोदनं त्यक्तवती पुत्रशोकाग्नितापिता