प्राह त्वमूनपंचा शद्विभेदाञ्जनयिष्यसि
यथा कुबेरो भगवान्षड्विंशद्वरुणप्रियः
इत्युक्ते वचने तस्मिन्दितिकुक्षौ द्विजोत्तमः
धान्यपालस्य वै गेहे मृलगंडान्तजः सुतः
अलिको नाम वै म्लेच्छस्तत्र स्थाने समागतः
अनपत्यो वस्त्रकारी सुतं प्राप्य गृहं ययौ
स सप्ताब्दवपुर्भूत्वा गोदुग्धपानतत्परः 3.4.17.
स्वहस्तेनैव संस्कृत्य भोजनं हरयेऽपर्यत्
पितृमातृपरित्यक्तः स बालः पंचहायनः
गोवर्द्धनगिरौ प्राप्य नारदस्योपदेशतः
तदा प्रसन्नो भगवान्विष्णुर्नारायणः प्रभुः
दृष्ट्वा तद्वदनं रम्यं मायाशक्त्या दिशो दश
धुवोऽपि भगवान्साक्षात्सर्वपूज्यो बभूव ह
नभःपतिः कालकरः शिशुमारपतिस्स वै
तस्माद्धरायां संभूतो भौमो नाम महाग्रहः
वह्निदेव्या ततो जातश्चाहं तत्र महाग्रहः
ग्रहभूतः स्थितस्तत्र नभोदेव्यां तदुद्भवः 3.4.17.
thumb|400px|दिग्गज1 पूर्वस्यां दिशि वै तस्माज्जातश्चैरावतो गजः
वामनः कुमुदश्चैव पुष्पदंतः क्रमाद्गजाः ।। सार्वभौमः सुप्रतीको नभोदिक्षु तु तत्सुताः
अभ्रमुः कपिला चैव पिंगलाख्या इमाः क्रमात्
भूमिदिक्षु करिण्यश्च जातास्तस्मात्तु तत्प्रियाः
पशुयोन्युद्भवानां च नृणां ता योषितस्सदा
मनुवंशोद्भवानां च नृणां चान्योद्भवाः स्त्रियः
द्विधा धुवस्स विज्ञेयो भूमेरूर्द्ध्वमधस्तथा
अधोध्रुवे सदा रात्रिर्नारकास्तत्र वै स्थिताः
महो जनस्तपस्सत्यं तेषु नित्यं दिनं स्मृतम् तेषु नित्यं स्मृता रात्रिः कल्पमानं च कोविदैः
स तु पूर्वभवे चासीद्ब्राह्मणो माधवप्रियः 3.4.17.
तीर्थ पुण्यात्स वै विप्रो माधवो माधवप्रियः षट्त्रिंशच्च सहस्राब्दं राज्यं कृत्वा ध्रुवोऽभवत्
सूत उवाच इति श्रुत्वा गुरोर्वाक्यं स ध्रुवः पंचमो वसुः नरश्रीर्नाम विख्यातो गुणवैश्यस्य वै सुतः
कुसीदगुणगुप्तश्च नरश्रीः पुत्रवत्सलः