एतस्मिन्नन्तरे प्राप्तो वैवस्वतसुतो महान्
नग्नभूतं समालोक्य नेत्रे संमील्य संस्थितः
अस्मिन्खण्डे सदा नार्यो भविष्यंति च मां विना
इला बभूव नृपते कन्या जनमनोहरा
इलासमाधिभूतायाः सप्तविंशच्चतुर्युगम् बुधं देवं पतिं कृत्वा चंद्रवंशमजीजनत्
अयोध्याधिपतिः श्रीमान्यदेलावृतमागतः
तदा प्राप्त इलो विप्रस्तस्या रूपेण मोहितः 3.4.17.
एतस्मिन्नंतरे तत्र वागुवा चाशरीरिणी
अनिलो नाम तत्रैव विख्यातोऽभूद्द्विजस्य वै
छित्त्वाछित्त्वा शिरो रम्यं तस्मै जातं पुनः पुनः
प्राह त्वमूनपंचा शद्विभेदाञ्जनयिष्यसि
यथा कुबेरो भगवान्षड्विंशद्वरुणप्रियः
इत्युक्ते वचने तस्मिन्दितिकुक्षौ द्विजोत्तमः
धान्यपालस्य वै गेहे मृलगंडान्तजः सुतः
अलिको नाम वै म्लेच्छस्तत्र स्थाने समागतः
अनपत्यो वस्त्रकारी सुतं प्राप्य गृहं ययौ
स सप्ताब्दवपुर्भूत्वा गोदुग्धपानतत्परः 3.4.17.
स्वहस्तेनैव संस्कृत्य भोजनं हरयेऽपर्यत्
पितृमातृपरित्यक्तः स बालः पंचहायनः
गोवर्द्धनगिरौ प्राप्य नारदस्योपदेशतः
तदा प्रसन्नो भगवान्विष्णुर्नारायणः प्रभुः
दृष्ट्वा तद्वदनं रम्यं मायाशक्त्या दिशो दश
धुवोऽपि भगवान्साक्षात्सर्वपूज्यो बभूव ह
नभःपतिः कालकरः शिशुमारपतिस्स वै
तस्माद्धरायां संभूतो भौमो नाम महाग्रहः
वह्निदेव्या ततो जातश्चाहं तत्र महाग्रहः
ग्रहभूतः स्थितस्तत्र नभोदेव्यां तदुद्भवः 3.4.17.
thumb|400px|दिग्गज1 पूर्वस्यां दिशि वै तस्माज्जातश्चैरावतो गजः
वामनः कुमुदश्चैव पुष्पदंतः क्रमाद्गजाः ।। सार्वभौमः सुप्रतीको नभोदिक्षु तु तत्सुताः
अभ्रमुः कपिला चैव पिंगलाख्या इमाः क्रमात्