शिष्यं कृत्वा नृपं तं स योगिरूपो हि भूषणम्
स वज्रमुकुटो मत्वा तदाज्ञां नगरं गतः
शीघ्रं निवेदयामासुर्दन्तवक्त्रस्तमब्रवीत्
जटिलः प्राह भो राजन्श्मशाने मद्गुरुः स्थितः
इति श्रुत्वा स नृपतिस्तूर्णमाहूय तद्गुरुम्
स्मशाने संधितं मंत्रं मया योगिस्वरूपिणा
वामजानुनि शूलेन तया दत्तं हि भूषणम्
स वज्रमुकुटस्तां तु गृहीत्वा गृहमाययौ
कस्मै पापं महत्प्राप्तं चतुर्णा मे वदाधुना सूत उवाच इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः
विहस्य भार्गवं प्राह प्राप्तं पापं हि भूपतेः 3.2.1.
भूप पुत्रेणार्थसिद्धं कृतं तस्माच्च भूपतेः
रजोवतीं सुतां दृष्ट्वा न विवाहेत यो नरः
गांधर्वं च विवाहं वै कामिन्या च कृतं यया
अदृष्टदोषां यः कन्यां विवेकेन विना त्यजेत्
इति श्रुत्वा? स वैतालो धर्मगाथां नृपेरिताम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये नाम प्रथमोऽध्यायः
द्विजवर्यः स वैतालो वचः प्राह प्रसन्नधीः
एकदा यमुनातीरे धर्मस्थलपुरी शुभा
गुणाधिपो महीपालस्तत्र राज्यं चकार वै
तस्य पत्नी सुशीला च पतिव्रतपरायणा
तस्यानुजा मधुमती शीलरूपगुणान्विता
भ्राता? बभ्राम तौ सर्वं चिनुतश्च सुतावरम्
पठनार्थे तु काश्यां वै सत्त्वशीलः स्वयं गतः
वामनो नाम विख्यातो रूपशीलवयोवृतः
भोजनं छादनं पानं स्वप्नं त्यक्त्वा च विह्वला
दृष्ट्वा सुशीला तं बाला वामनं ब्राह्मणं तथा 3.2.2.
हरिशर्मा प्रयोगे च द्विजं दृष्ट्वा त्रिविक्रमम्
सत्यशीलस्तु काश्यां वै गुरुपुत्रं च केशवम्
माघकृष्णत्रयोदश्यां भृगौ लग्नं शुभं स्मृतम्
तस्मिन्काले तु सा कन्या भुजगेनैव दंशिता