इत्युक्त्वा ते गता विप्रास्तीर्थात्तीर्थान्तरं प्रति
जपप्रभावादभवद्वनमुत्पलसंकुलम्
ततः सप्तर्षयः प्राप्ता वल्मीकात्तं निराकृतम्
वल्मीकान्निस्सृतो यस्मात्तस्माद्वाल्मीकिरुत्तमम्
एवमुक्त्वा ययुर्लोकं स तु रामायणं मुनिः
चकार निर्मलं पद्यैः सर्वाघौघविनाशनम्
अद्यापि संस्थितः स्वामी मृगव्याधः सनातनः
वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे 3.4.10.
तदा सरस्वती देवी नदी भूत्वा समागता
बाहुभ्यां क्षत्रियं चैव चोरुभ्यां वैश्यमुत्तमम्
द्विजराजस्तथा सोमश्चंद्रमा नामतो द्विजः
कश्यपो हि द्वितीयोऽसौ मरीचिस्तु ततोऽभवत्
लोकान्धरति यो द्रव्यैः स तु धर्मो हि नामतः
लोकान्दक्षति यः कृत्यैः स तु दक्षः प्रजापतिः
वर्णधर्मेण ते सर्वे वर्णात्मानश्च वै क्रमात् विष्णु मायाप्रभावेन कलाभूताः स्थिता भुवि
तदा तु भगवान्ब्रह्मा सोमायाश्विनिमण्डलम्
कश्यपायादितिगणं क्षत्ररूपं त्रयोदशम्
नानाविधानि सृष्टानि चासन्वैवस्वतेऽन्तरे 3.4.10.
तत्र वासं स्वयं दक्षः कृतवान्यज्ञतत्परः
भूतनाथो महादेवो न ननाम कदाचन
मृगव्याधः शिवः क्रुद्धो वीरभद्रो बभूव ह
तेनैव पीडिता देवा मुनयः पितरोऽभवन्
मृगभूतो ययौ तूर्णं दृष्ट्वा व्याधः शिवोभवत्
तदा तु भगवान्ब्रह्मा तुष्टाव मधुरस्वरैः
तुलाराशिस्थिते भानौ तं रुद्रं चन्द्रमण्डले प्रययौ सप्तलोकं वै स रुद्रश्चंद्ररूपवान्
इति श्रुत्वा वीरभद्रो रुद्रः संहृष्टमानसः
विप्र भैरवदत्तस्य गेहं गत्वा स वै शिवः
स बालश्च गुणी वेत्ता ब्रह्मचारी बभूव ह 3.4.10.
त्रिपुण्ड्रश्चाक्षमाला च मंत्रः पंचाक्षरः शुभः
अथैकादशोऽध्यायः आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनम् बृहस्पतिरुवाच पुरा तु नैमिषारण्ये विप्रश्चाजगरोऽभवत्। वेदान्तशास्त्रनिपुणो ज्ञानवाञ्छम्भुपूजकः