विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ निवेदयितुमुद्भवः परात्परं स्वकीयं पदम्
माधुर्य्यैर्मधुभिस्सुगंधवदनः स्वर्णांबुजानां वनं कारुण्या मृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः
देवारातिजनैरधर्मजनितैस्सपीडितेयं मही संकुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते
बृहस्पतिमुपागम्य देवा वचनमब्रुवन्
वयं रुद्रा महाभाग इमे च वसवोऽश्विनौ तत्सर्वं कृपया देव वक्तु मर्हति नो भवान्
पुरा पूर्वभवे चासीन्मृगव्याधो द्विजाधमः
हत्वा द्विजान्महामूढस्तेषां यज्ञोपवीतकम्
ब्राह्मणस्य च यद्द्रव्यं सुधोपममनुत्तमम्
शूद्रस्य वस्तु रुधिरमिति ज्ञात्वा द्विजा धमः 3.4.10.
द्विजनाशात्सुरास्सर्वे भयभीतास्समंततः
श्रुत्वा च दुःखितो ब्रह्मा सप्तर्षीन्प्राह लोकगान्
इति श्रुत्वा मरीचिस्तु वशिष्ठादिभिरन्वितः ४३ मृगव्याधस्तु तान्दृष्ट्वा धनुर्बाणधरो बली
मरीचाद्या विहस्याहुः किमर्थं हंतुमुद्यतः
इत्युक्तस्तान्द्विजः प्राह कुलार्थं चात्मनो हिते
श्रुत्वा तमाहुस्ते विप्रा गच्छ शीघ्रं धनुर्धर
इति श्रुत्वा तु घोरात्मा तेषां दृष्ट्या सुनिर्मलः
तत्पापकं भवद्भिश्च ग्रहणीयं धनं यथा
साक्षीयं भूमिरचला साक्षी सूर्योऽयमुत्तमः 3.4.10.
यथा पापं क्षयं याति तथा माज्ञातुमर्हथ
राम नाम हि तज्ज्ञेयं सर्वाघौघविनाशनम्
इत्युक्त्वा ते गता विप्रास्तीर्थात्तीर्थान्तरं प्रति
जपप्रभावादभवद्वनमुत्पलसंकुलम्
ततः सप्तर्षयः प्राप्ता वल्मीकात्तं निराकृतम्
वल्मीकान्निस्सृतो यस्मात्तस्माद्वाल्मीकिरुत्तमम्
एवमुक्त्वा ययुर्लोकं स तु रामायणं मुनिः
चकार निर्मलं पद्यैः सर्वाघौघविनाशनम्
अद्यापि संस्थितः स्वामी मृगव्याधः सनातनः
वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे 3.4.10.
तदा सरस्वती देवी नदी भूत्वा समागता
बाहुभ्यां क्षत्रियं चैव चोरुभ्यां वैश्यमुत्तमम्