अन्यैस्सुरैश्च संपूज्यो बभूव हरिपूजनात्
कदाचित्तस्य गेहे वै व्रती कश्चित्समागतः दृष्ट्वोवाच महाभागः स स्पर्शाढ्यो दयापरः
अनेन स्पर्शमणिना लोहधातुश्च कांचनम्
स्नात्वा तावत्सरय्वां चायास्यामि तेंतिकं मुदा कृत्वा लक्ष्मीं समाप्यासीद्विष्णुशर्मा तदागमत्
बहुस्वर्णयुतां पत्नीं दृष्ट्वोवाच हरिप्रियः
अहं विष्णुपरो दीनश्चौरभीतः सदैव हि
इति श्रुत्वा वचो घोरं पतिभीता पतिव्रता
द्विजोऽपि घर्घरामध्ये तद्द्रव्यं बलतोऽक्षिपत् उवाच ब्राह्मणीं दीनां स्वर्णं किं न कृतं त्वया
साह भो मत्पतिश्शुद्धो गृहीत्वा स्पर्शकं रुषा निर्लोहो वर्तते विप्रस्ततः प्रभृति हे गुरो ।। 3.4.10.
इति श्रुत्वा तु वचनं स यतिर्विस्मयान्वितः
दरिद्रो भिक्षुकश्चास्ति भवान्दैवेन मोहितः
इत्युक्तवंतं यतिनं विष्णु शर्मा तदाब्रवीत्
इत्युक्त्वा यतिना सार्द्धं गृहीत्वा कंटकान्बहून्
तदा तु स यती विप्रं नत्वा प्रोवाच नम्रधीः ततः प्राप्तं शुभं रत्नं तत्तु तद्दर्शनेन वै
स्पर्शको बहुधा प्राप्तो मया लोभात्मना द्विज
विष्णुशर्मा सहस्राब्दमुषित्वा जगतीतले
स द्विजो वैष्णवं तेजो धृत्वा वै मासि फाल्गुने
सूत उवाच फाल्गुने मासि तं सूर्यं समाराध्य सुखी भव
इत्युक्तो गुरुणा देवो ध्यात्वा सर्वमयं हरिम् 3.4.10.
तदा प्रसन्नो भगवान्समभूत्सूर्यमण्डलात् पश्यतां सर्वदेवानां शक्रदेहमुपागमत्
तत्तेजसा तदा शक्रः स्वान्तर्लीय स्वकं वपुः ।। । अयोनिस्स द्विजो भूत्वा शची देवी तथैव सा
तदा तौ मिथुनीभूतौ वैष्णवाग्निप्रपीडितौ
अधाद्गर्भं तदा देवी शची तु द्विजरूपिणी
प्रादुरासीत्स्वयं विष्णुर्धृत्वा सर्व कलां हरिः
तदा रुद्राश्च वसवो विश्वेदेवा मरुद्गणाः
रमणं मुनिभिर्विधिशंभुयुतं प्रणमाम वयं भवभीतिहरम्
दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः
नमस्ते शचीनंदनानन्दकारिन्महापापसन्तापदुर्लापहारिन्
त्वया हंसरूपेण सत्यं प्रपाल्यं त्वया यज्ञरूपेण वेदः प्ररक्ष्य 3.4.10.
अनर्पितचरोचिरात्करुणयावतीर्णः कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम्