जित्वा प्राकृतभाषायाः कर्तॄन्मूढान्कलिप्रियान्
एकदा तु कलिर्धूर्तो हृदिस्थश्चौरकर्मणाम्
तदा तु दुःखिता देवी गर्तमध्ये स्थितं पतिम् 3.4.9.
एकस्मिन्दिवसे राजा मृगयार्थमुपागतः स पृष्टस्तेन तत्रैव कृतं केन तवेदृशम्
स होवाच महाराज हस्तपादविहीनकः
इति श्रुत्वा धर्मपालो नृपतिस्तं द्विजोत्तमम्
तस्य दीक्षां नृपः प्राप्य धर्मशालामकारय त् धर्मपालगृहं प्राप्य राजानमिदमब्रुवन्
वयं हि शास्त्रनिपुणास्तव गेहमुपागताः संभुंक्ते प्रत्यहं प्रीत्या तत्पश्य नृपसत्तम
इत्युक्त्वा कलिभक्तास्ते विष्णुरूपं चतुर्भुजम्
विस्मितो धर्मपालश्च जयदेवमुवाच ह अदीदृशन्हरिं साक्षात्तस्मात्त्वं शीघ्रमाव्रज
इति श्रुत्वा द्विजः प्राप्तो विस्मितोऽभूत्तथा नृपः
असौ विप्रश्च नृपते गौडदेशे निवासिनः
गरलं मिश्रितं भक्ष्ये तेन पाखंडरूपिणा 3.4.9.
एतस्मिन्नंतरे राजन्वयं तत्र समागताः शूलात्तं हि समुत्तार्य हस्तौ पादौ नृपोऽच्छिनत्
अस्माकं शिष्यभूतो हि राजास्माभिः प्रबोधितः
चौराँस्तान्सा हि पाताले चकार सुररक्षितान्
क्रंदमाने द्विजे तस्मिन्हस्तांघ्री प्रकृतिं गतौ
श्रुत्वा राजा प्रसन्नात्मा जयदेवमुखोद्भवम्
इति ते कथितं विप्र जयदेवो यथाभवत्
सर्वदेवमयं विष्णुं पूजयित्वा प्रसन्नधीः
अन्यैस्सुरैश्च संपूज्यो बभूव हरिपूजनात्
कदाचित्तस्य गेहे वै व्रती कश्चित्समागतः दृष्ट्वोवाच महाभागः स स्पर्शाढ्यो दयापरः
अनेन स्पर्शमणिना लोहधातुश्च कांचनम्
स्नात्वा तावत्सरय्वां चायास्यामि तेंतिकं मुदा कृत्वा लक्ष्मीं समाप्यासीद्विष्णुशर्मा तदागमत्
बहुस्वर्णयुतां पत्नीं दृष्ट्वोवाच हरिप्रियः
अहं विष्णुपरो दीनश्चौरभीतः सदैव हि
इति श्रुत्वा वचो घोरं पतिभीता पतिव्रता
द्विजोऽपि घर्घरामध्ये तद्द्रव्यं बलतोऽक्षिपत् उवाच ब्राह्मणीं दीनां स्वर्णं किं न कृतं त्वया
साह भो मत्पतिश्शुद्धो गृहीत्वा स्पर्शकं रुषा निर्लोहो वर्तते विप्रस्ततः प्रभृति हे गुरो ।। 3.4.10.
इति श्रुत्वा तु वचनं स यतिर्विस्मयान्वितः