पद्मावतीं प्रियां प्राह शृणु वाक्यं वरानने
तन्मित्रं बुद्धिदक्षश्च किं नु तिष्ठति सांप्रतम्
इति श्रुत्वा वचस्तस्य निष्ठुरं कुलिशोपमम्
तदा तु बुद्धिदक्षश्च चित्रगुप्तप्रपूजकः
एतस्मिन्नन्तरे प्राप्तो भूपतिस्त्वरयान्वितः
कस्मान्न खादितं मित्र भोजनं मत्प्रियाकृतम्
भुक्त्वा स मरणं प्राप्तः स दृष्ट्वा विस्मितो नृपः
मित्र गच्छ गृहं शीघ्रं मया त्यक्ता च पापिनी
तदलंकारमाहृत्य त्रिशूलं कुरु जानुनि
इति श्रुत्वा ययौ भूपस्तथा कृत्वा समागतः 3.2.1.
शिष्यं कृत्वा नृपं तं स योगिरूपो हि भूषणम्
स वज्रमुकुटो मत्वा तदाज्ञां नगरं गतः
शीघ्रं निवेदयामासुर्दन्तवक्त्रस्तमब्रवीत्
जटिलः प्राह भो राजन्श्मशाने मद्गुरुः स्थितः
इति श्रुत्वा स नृपतिस्तूर्णमाहूय तद्गुरुम्
स्मशाने संधितं मंत्रं मया योगिस्वरूपिणा
वामजानुनि शूलेन तया दत्तं हि भूषणम्
स वज्रमुकुटस्तां तु गृहीत्वा गृहमाययौ
कस्मै पापं महत्प्राप्तं चतुर्णा मे वदाधुना सूत उवाच इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः
विहस्य भार्गवं प्राह प्राप्तं पापं हि भूपतेः 3.2.1.
भूप पुत्रेणार्थसिद्धं कृतं तस्माच्च भूपतेः
रजोवतीं सुतां दृष्ट्वा न विवाहेत यो नरः
गांधर्वं च विवाहं वै कामिन्या च कृतं यया
अदृष्टदोषां यः कन्यां विवेकेन विना त्यजेत्
इति श्रुत्वा? स वैतालो धर्मगाथां नृपेरिताम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये नाम प्रथमोऽध्यायः
द्विजवर्यः स वैतालो वचः प्राह प्रसन्नधीः
एकदा यमुनातीरे धर्मस्थलपुरी शुभा
गुणाधिपो महीपालस्तत्र राज्यं चकार वै
तस्य पत्नी सुशीला च पतिव्रतपरायणा