तदा प्रसन्नो भगवान्देवानाह शुभं वचः
रोगैश्च पीडिताँल्लोकान्कलिना निर्मितैर्भुवि
इत्युक्त्वा भगवान्सूर्यः काशीनगरमागतः
सुश्रुतं राजपुत्रं च विप्रवृद्धसमन्वितम् 3.4.9.
रोगैश्च क्षयितं देहं काल्पमेतत्स्मृतं बुधैः
धन्वतरिस्स भगवान्प्रसिद्धोभूत्कलौ युगे
सुश्रुतः कल्पवेदं तं धन्वत्तरिविनिर्मितम्
चतुष्षष्टिकलाभिज्ञो रविपूजनतत्परः
त्यक्त्वा प्रतिग्रहं वृत्तिं कारुवृत्तिं गृहीतवान्
धातुमूर्तिकलं चैव सर्वकारुकलं तथा
कलएको मासमात्रे काले तेनैव निर्मितः विश्वकर्मा रविः साक्षान्माघमासे प्रकाशकः
हेलिनो बहुलैर्यज्ञैस्सन्तुष्टः प्रत्यहं प्रभुः
ज्योतीरूपो महारम्यस्तत्र प्राप्तो रविः स्वयम्
भुक्त्वा स प्रत्यहं स्वामी मासिमासि दिवाकरः 3.4.9.
सहस्रायुर्द्विजो भूत्वा त्यक्त्वा प्राणान्रविः स्वयम् तं सूर्यं भज देवेन्द्र स ते कार्यं करिष्यति
सूर्यमाराधयामास विश्वकर्माणमुत्तमम्
तदा प्रसन्नो भगवांस्त्वष्टा तुष्टिकरोजनान्
बिल्ग्रामे वंगदेशे संभवामि निरुक्तकृत्
इत्युक्त्वा भगवान्सूर्यो वंगदेशमुपाययौ
स पंचाब्दवपुर्भूत्वा पितृमातृपरायणः
मृतिमंतौ च पितरौ प्रेतकृत्येन तर्पितौ
जयदेवस्तदा विप्रो भूत्वा वैराग्यवान्भुवि
त्रिविंशाब्दे ततः प्राप्ते केनचिन्मधुरानना
अर्चावसाने भगवाननिरुद्धस्सनातनः 3.4.9.
शृणु त्वं भोः सत्यव्रत जयदेवो वपुर्मम
इत्युक्तस्स द्विजस्तूर्णं दृष्ट्वा वैरागरूपिणम्
सा तु पद्मावती कन्या मत्वा तं सुंदरं पतिम्
निरुक्तं वैदिकं चांगं कृतवान्स समाधिना षोडशादौ विकारश्च वर्णनाशः पृषोदरे
वर्णविकारनाशाभ्यां धातोरतिशयेन यः
एवं पंचविधान्येव निरुक्तानि स्मृतानि वै