समुद्रमगमत्पुत्रो राक्षसीभिश्च रक्षितः
जातकं फलितं चैव मूकप्रश्नं तथादितः
भक्तराज नमस्तुभ्यं विभीषण हरि प्रिय
इति श्रुत्वा च स नृपो वैष्णवं द्विजमुत्तमम्
म्लेच्छैर्विनाशितं यत्तु वेदांगं ज्योतिषां गतिः
सूत उवाच प्रयागे तु पुनर्देवानुवाच वचसां पतिः
प्रतिष्ठानपुरे रम्ये सूर्यो जातो हराज्ञया
त्रेतान्ते सिंहलद्वीपे परीक्षितनृपोऽभवत्
कन्या भानुमती तस्य सूर्यव्रतपरायणा
तया कृतं शुभं भक्ष्यं मध्याह्ने भुक्तवान्प्रभुः
स्नानार्थमागता कन्या तदा नारद आगतः
गृहीत्वा वसनं तस्या वचनं प्राह निर्भयः
इत्युक्तवंतं तु मुनिं कुमारी नम्रकन्धरा
भवान्देवाङ्गनाभिश्च प्रार्थितः स्वर्गमण्डले
नवद्वारेषु देहेस्मिन्दुर्गन्धाः संस्थिताः सदा 3.4.9.१० इति श्रुत्वा वचस्तस्या लज्जितो नारदस्तदा
कुष्ठीभूतं मुनिं दृष्ट्वा शंकरो लोकशंकरः
नारदस्य शुभं देहं कृत्वा शिवमुवाच ह
इत्युक्तं तं शिवः प्राह द्विजो भूत्वा भवान्भुवि
सविता भानुमत्या च सार्द्धं कृत्वा तपोन्वहम् तं भजाशु महेन्द्र त्वं देवकार्यं प्रसाधय
सवितारं पौषमासे तुष्टाव शुभ पूजनैः
तदा प्रसन्नो भगवान्देवानाह शुभं वचः
रोगैश्च पीडिताँल्लोकान्कलिना निर्मितैर्भुवि
इत्युक्त्वा भगवान्सूर्यः काशीनगरमागतः
सुश्रुतं राजपुत्रं च विप्रवृद्धसमन्वितम् 3.4.9.
रोगैश्च क्षयितं देहं काल्पमेतत्स्मृतं बुधैः
धन्वतरिस्स भगवान्प्रसिद्धोभूत्कलौ युगे
सुश्रुतः कल्पवेदं तं धन्वत्तरिविनिर्मितम्
चतुष्षष्टिकलाभिज्ञो रविपूजनतत्परः
त्यक्त्वा प्रतिग्रहं वृत्तिं कारुवृत्तिं गृहीतवान्
धातुमूर्तिकलं चैव सर्वकारुकलं तथा