अव्यक्तं तु परं ब्रह्म व्यक्तं शब्दमयं स्मृतम् 3.4.8.
वृषरूपधरो मुख्यो नन्दियानः स्मृतो बुधैः
सप्तहस्तस्त्रिधा बद्धो नित्यशुद्धो मुखे स्थितः
द्वौद्वौ शृंगौ च शिरसोर्नंदियानस्य वै स्मृतौ
रूढिश्च योगरूढिश्च शब्दौ तस्य शिरोद्वयम्
संवंधश्चाधिकारश्च भुजास्तस्य वृषस्य वै
ताभ्यां बद्धश्च स वृषो नन्दियानाथ ते नमः
जातश्च वृषलिंगाभ्यां सोऽहंकारो हरिः स्वयम्
इति ज्ञानं हृदि प्राप्य तदा सिद्धान्तकौमुदीम्
एकदा गणको धीमान्सत्यदत्तमुवाच ह हाटं कुरु महाराज सांप्रतं बहुवृत्तिदम् ।। 3.4.8.
इति श्रुत्वा तथा कृत्वा डिंडिमध्वनिना पुरे
अक्रीतं यस्य वै वस्तु हाटेऽस्मिन्वैश्यकोविदैः
इति श्रुत्वा शूद्रजनाश्चक्रुर्नानाविधं वसु
एकदा लोहकारश्च दारिद्रं लोहरूपिणम्
अक्रीतं पुरुषं राजा ज्ञात्वा लोहदरिद्रकम् कोशागारे तदा राज्ञा स्थापितोभूद्दरिद्रकः
निशीथे तम उद्भूते कर्म धर्मश्च मा तथा
तत्पश्चात्सत्यपुरुषो राजानमिदमब्रवीत् कर्मणा रहितो धर्मो भूतले न स्थिरो भवेत्
धर्मेण रहिता लक्ष्मीर्न शोभेत कदाचन
इत्युक्त्वा गन्तुमिच्छंतं गृहीत्वा करयोर्नृपः
न त्याज्यो हि मया देव भवान्किङ्गन्तुमर्हति 3.4.8.
तत्पश्चाच्च स्वयं लक्ष्मीस्तद्गेहे गंतुमुद्यता
अचला भव भो मातस्तर्हि मन्मदिरं व्रज
पुरोधसं तं गणकं समाहूय नृपोत्तमः
पुत्रजन्मनि काले तु संप्राप्तं तेन वै धनम्
पूषा नाम ततो जातं मार्गशीर्षे शुभे दिने
सूर्ये तु मोक्षमगमद्देवदेवप्रसादतः
पूषा नाम वचो देवानुवाच मधुरस्वरम्
उज्जयिन्यामहं देवा यास्ये रुद्रपशोर्गृहे
इत्युक्त्वा भगवान्पूषा पुत्रो जातो द्विजस्य वै
जातमात्रं च तं पुत्रं पिता काष्ठकटाहके 3.4.8.