सर्वदेवपरो नित्यं वेदपाठपरायणः ।। 3.4.8.
तत्सुतस्तु मृतिं प्राप्तो जन्ममात्रे हि दारुणे
जिजीव तत्प्रसादेन विवस्वान्नाम चाभवत्
अपत्यवान्धर्मपरः सूर्यवतपरायणः
सुशीला नाम विख्याता पतिसेवार्थमागता
बलाद्गृहीत्वा तु निशि बुभुजे स्मरविह्वलः
लिंगेद्रियं च पतितं गुदभ्रष्टो महांगरुक्
स चक्रे द्वादशं प्रेम्णा निराहारो यतेन्द्रियः
तदा श्रद्धा रवौ प्राप्ता प्रत्यहं स द्विजोत्तमः
नारीभिर्भर्त्सितः पूर्वं सोथ कामिनीयाचितः
शतायुर्ब्राह्मणो भूत्वा ज्ञानवान्रोगवर्जितः 3.4.8.
कार्तिके मासि लक्षाब्दं प्रकाशं कृतवान्नभः
पूजयित्वा विधानेन पूर्णिमायां ददर्श ह
उवाच शक्रं स रविर्देवकार्यं करोम्यहम्
धातुपाठो न्यपठितो भ्रंशार्थः स्वरवर्णकः
इत्युक्त्वा स गतः काश्यां गेहे वै वेदशर्मणः
द्वादशाब्दवपुर्भूत्वा सर्वशास्त्रविशारदः
त्रिवर्षान्ते च भगवांस्तस्मै ज्ञानं महद्ददौ
ज्ञातं कार्यगुणेनैव दीक्षितेन तदा हृदि
व्यक्तेऽहंकारभूते च बुद्धिर्ज्ञेया बुधैरजा
अव्यक्तं तु परं ब्रह्म व्यक्तं शब्दमयं स्मृतम् 3.4.8.
वृषरूपधरो मुख्यो नन्दियानः स्मृतो बुधैः
सप्तहस्तस्त्रिधा बद्धो नित्यशुद्धो मुखे स्थितः
द्वौद्वौ शृंगौ च शिरसोर्नंदियानस्य वै स्मृतौ
रूढिश्च योगरूढिश्च शब्दौ तस्य शिरोद्वयम्
संवंधश्चाधिकारश्च भुजास्तस्य वृषस्य वै
ताभ्यां बद्धश्च स वृषो नन्दियानाथ ते नमः
जातश्च वृषलिंगाभ्यां सोऽहंकारो हरिः स्वयम्
इति ज्ञानं हृदि प्राप्य तदा सिद्धान्तकौमुदीम्
एकदा गणको धीमान्सत्यदत्तमुवाच ह हाटं कुरु महाराज सांप्रतं बहुवृत्तिदम् ।। 3.4.8.