माधवस्य द्विजस्यैव तनयः स भविष्यति 3.4.8.
स्वांगात्तु तेज उत्पाद्य वृंदावनमप्रे(पे?)षयत्
विमुखान्मधुरालापैर्वशीकृत्य समन्ततः ॥ तेभ्यश्च वैष्णवीं शक्तिं प्रददौ भुक्तिमुक्तिदाम् । मध्वाचार्य इति ख्यातः प्रसिद्धोऽभून्महीतले
जीव उवाच द्वापरे च द्विजश्रेष्ठो मेघशर्मा बभूव ह
कृषिकृत्यपरो नित्यं तद्धनैश्च दशांशकैः
एकदा पञ्चवर्षाब्दे शन्तनौ च महीपतौ
क्रोशमात्रं हि तत्क्षेत्रं पर्जन्येनैव सेचितम्
मेघशर्मा तदा तत्र धनधान्ययुतोऽभवत्। अन्ये तु पीडिता लोका राजानं शरण ययुः
तदा तु दुःखितो राजा मेघशर्माणमाह्वयत्
अनावृष्टिर्यथा न स्यात्तथा विप्र समादिश
इत्येवंवादिनं भूपं मेघशर्मा वचोऽब्रवीत् 3.4.8.
द्वादशैव समाहूय लक्षमात्रं रवेः स्वयम् सूर्यमन्त्राहुतीर्वह्नौ तद्दशांशं हि तद्द्विजैः
कारयित्वा विधानेन कृतकृत्यः सुखी भव
प्रसन्नस्तु तदा सूर्यः पर्जन्यात्मा समन्ततः
शन्तनुस्तु तदा राजा सूर्यव्रतपरायणः
यं यं करेण स्पृशति वृद्धो भवति वै युवा
स वै पंचशतायुश्च निर्जरो निरुपद्रवः लक्षाब्द भुवमासाद्य ब्रह्मलोकं गमिष्यति
इत्येवंवादिनं जीवं पर्जन्यो भगवान्रविः
मुरा नाह प्रसन्नात्मा म्लेच्छराज्ये कलौ युगे
श्रीधरो नाम विख्यातः पुत्रोभूद्वेदशर्मणः
श्रीमद्भागवतं शास्त्रं समालोक्य विशारदः श्रीमद्भागवतं शास्त्रं पुराणोपरि तत्कृतम् ।। 3.4.8.
वेदशास्त्रपरो नित्यं देवतातिथिपूजकः
सत्यवादी महासाधुः स्तेयहिंसाविवर्जितः
एकदा पथि भिक्षार्थं गच्छतस्तस्य भूपतेः
बभूव वाटिकां कृत्वा कलिर्दानमनोहराम्
ममेयं वाटिका रम्या तत्र गच्छ सुखी भव
कलिस्तु वाटिकामध्ये गत्वा रम्यफलानि च
प्रांजलिः प्रणतो भूत्वा प्रांशुशर्माणमब्रवीत्
इत्युक्तः स तु तं प्राह विहस्य मधुर स्वरम् कलिः प्राप्तः स्मृतः प्राज्ञैस्तस्माद्गृह्णाम्यहं न हि
यदि दत्तं फलं भक्त्या त्वयाद्य द्विजसेविना शालग्रामः स्वयं ब्रह्म सच्चिदानन्दविग्रहः