इत्येवं भास्करस्यैव माहात्म्यं कथितं मया
इति श्रुत्वा तु ते देवाः पद्यैः सूर्यकथा मयैः प्रत्यक्षमभवत्तत्र देवानाह प्रसन्नधीः
सुदर्शनो द्वापरान्ते कृष्णाज्ञप्तो जनिष्यति
निम्बादित्य इति ख्यातो धर्मग्लानिं हरिष्यति सूत उवाच शृणुष्व चरितं तस्य निम्बार्कस्य महात्मनः
यमाह भगवान्कृष्णः कुरु कार्यं ममाज्ञया
देशे तैलंगके रम्ये देवर्षिवरसेविते 3.4.7.
लब्ध्वा भूमौ वर्तयस्व नष्टप्रायान्ममाज्ञया
सुदर्शनाश्रमादौ च स्थितिः कार्या त्वयानघ
भक्ताभीष्टप्रदः साक्षादवतीर्णो महीतले
सुदर्शनाश्रमे पुण्ये भृगुवंशसमुद्भवः
ऋषिरूपधरश्चासीज्जयंत्या भार्यया सह
दधार मनसा देवी जयन्ती पतिदेवता
अथ सर्वगुणोपेते काले परमशोभने
कृत्तिकाभे महारम्ये उच्चस्थे ग्रहपं चक्रे
जयन्त्यां जयरूपिण्यां जजान जगदीश्वरः
विरिञ्चिरेकदा तस्मिन्निम्बार्कस्याश्रमे शुभे 3.4.7.
यावत्सूर्यः स्थितो व्योम्नि तावन्मां भोजय द्विज
तदा तु भगवान्सूर्यो ह्यस्ताचलमुपागतः
स्थापितं तेजसा स्वेन तेजस्तत्त्वं सुदर्शनम्
भिक्षुवेषधरं बालं मुनिं सूर्यमिवापरम्
उवाच वचनं रम्यं साधु साध्विति पूजयन्
पुरा त्रेतायुगे शक्र शक्रशर्मा द्विजो ह्यभूत् । अयोध्यायां महाभागो देवपूजनतत्परः
अश्विनौ च तथा रुद्वान्वसून्सूर्यान्पृथक्पृथक् हव्यैश्च तर्पयामास देवाँस्तान्प्रत्यहं द्विजः
तद्भावतस्त्रयस्त्रिंशद्देवाः क्षुद्रगणैर्युताः
दशवर्षसहस्राणि निर्जरो निरुपद्रवः
लक्षाब्दं मण्डले तस्मिन्नधिकारः कृतस्ततः
अष्टवर्षसहस्राणि दिव्यानि पदमुत्तमम्
इति श्रुत्वा तु वचनं महेन्द्रः सुरसंयुतः
आषाढपूर्णिमायां च स देवो जगतीतले
वृन्दावने महारम्ये जनयिष्ये कलौ भये