इति ते कथितं विप्र यथा जीवनभाषितम्
काव्यविद्यापरो नित्यं रसिकः कामिनीप्रियः
कुंभराशिं मयि प्राप्ते गंगाद्वारे महोत्सवः
तत्रोत्सवे नरा नार्य्यो बहुभूषणभूषिताः
मित्रशर्मा तु स प्राप्य कामसेनस्य वै सुताम्
दाक्षिणात्यस्य भूपस्य तनयां मधुराननाम् 3.4.7.
सा तु तं चित्रिणी नाम्ना मित्रशर्माणमुत्तमम्
स्वगेहं पुनरागत्य चित्रिणी भास्करं प्रभुम्
मित्रशर्मा तु तत्स्थाने गंगाकूले मनोहरे
स्तोत्रमादित्यहृदयमजपत्सूर्यतत्परः
मासान्ते भगवान्सूर्यो ददौ तस्मै हि तं वरम्
चित्रिणी तु वरं प्राप्ता वांछितं लोकभास्करात्
मित्रशर्माणमाहूय वरयामासतुः सुताम्
तौ तु चक्रं मुदाविष्टौ प्रत्यहं सूर्यदेवतम्
ईजतू रक्तकुसुमैर्व्रतं कृत्वा रविप्रियम्
शताब्दवपुषौ चोभौ निर्जरौ श्रमवर्जितौ 3.4.7.
इति श्रुत्वा रवेर्गाथां वैशाख्यां देवराट् स्वयम्
भक्तिनम्रान्सुरान्दृष्ट्वा भगवांस्तिमिरापहः ममांशात्तनयो भूमौ भविष्यति सुरोत्तम
समुत्पाद्य कृतः काश्यां रामानंदस्ततोभवत्
देवलस्य च विप्रस्य कान्यकुब्जस्य वै सुतः पित्रा मात्रा परित्यक्तो राघवं शरणं गतः
तदा तु भगवान्साक्षाच्चतुर्दशकलो हरिः
इति ते कथितं विप्र मित्रदेवांशतो यथा
अर्यमा नाम वै विप्रः पुरा सत्ययुगे ह्यभूत्
तस्य पत्नी पितृमती श्राद्धयज्ञस्य भूपतेः अर्यम्णो जनयामास धर्मशास्त्रपरायणन्
एकदा स द्विजो धीमान्विचार्य्य बहुधा हृदि
प्रभाते श्वेतकुसुमैश्चन्दनादिभिरर्चनैः 3.4.7.
मासमात्रं तु विधिना पूजयामास भास्करम्
तन्मणेश्च प्रभावेण प्रस्थमात्रं च कांचनम्
वापीकूपतडागान्हि तथा हर्म्याणि भूतले
सहस्राब्द वपुर्भूत्वा निर्जरो निरुपद्रवः उषित्वा तत्र लक्षाब्दं सूर्यरूपो बभूव ह