करणाटकभूपस्य दंतवक्त्रस्य सा सुता
पुष्पभावेन ज्ञात्वाहं त्वां नयामि तदंतिके
आहाज्ञां देहि भूपाल यास्येहं कारणाटके
आयामि नाऽत्र सन्देहो यदि जीवयसे सुतम्
हयारूढौ गतौ शीघ्रं दंतवक्त्रस्य पत्तने
बहुद्रव्यं ददौ तस्यै बुद्धिदक्षो विशारदः
प्रातःकाले तु सा वृद्धा गच्छती राजमन्दिरम्
पद्मावतीं च संप्राप्यैकांते मद्वचनं वद
यो दृष्टः पुरुषो रम्यस्त्वदर्थे समुपागतः
रुष्टा पद्मावती प्राह चंदनार्द्रांगुलीयिका 3.2.1.
अंगुलीभिः कपोलौ च तस्याः स्पृष्ट्वा ययौ गृहम्
स मित्रं दुःखितं प्राह शृणु मित्र शुचं त्यज
त्वदर्थे ताडितं वक्षः कदा मित्रं भविष्यसि
रजस्वलांते भो मित्र तवास्यं चुंबितास्म्यहम्
त्रिदिनांते तु सा वृद्धा पद्मावत्यै न्यवेदयेत्
तं भजस्वाद्य सुश्रोणि सफलं जीवनं कुरु
गवाक्षद्वारि निष्कास्य तले पृष्ठे च ताडिता
प्रसन्नो बुद्धिदक्षश्च मित्रं प्राह शृणुष्व भोः
अर्द्धरात्रे तु संप्राप्य भज मां कामविह्वलाम्
ययौ शीघ्रं महाकामी रमणीं तामरामयत् 3.2.1.
पद्मावतीं प्रियां प्राह शृणु वाक्यं वरानने
तन्मित्रं बुद्धिदक्षश्च किं नु तिष्ठति सांप्रतम्
इति श्रुत्वा वचस्तस्य निष्ठुरं कुलिशोपमम्
तदा तु बुद्धिदक्षश्च चित्रगुप्तप्रपूजकः
एतस्मिन्नन्तरे प्राप्तो भूपतिस्त्वरयान्वितः
कस्मान्न खादितं मित्र भोजनं मत्प्रियाकृतम्
भुक्त्वा स मरणं प्राप्तः स दृष्ट्वा विस्मितो नृपः
मित्र गच्छ गृहं शीघ्रं मया त्यक्ता च पापिनी
तदलंकारमाहृत्य त्रिशूलं कुरु जानुनि
इति श्रुत्वा ययौ भूपस्तथा कृत्वा समागतः 3.2.1.