इत्येवं वर्तमानस्य गतः कालो महान्स्वयम्
पीडितस्तु रुजा विप्रः शंकरं लोकशंकरम् मासमात्रेण भगवान्ददौ ज्ञानं स्वयं हरः
धातृशर्मा तु तत्प्राप्य भास्करं मोहनाशनम्
पंचाब्दे भगवान्सूर्यो भक्तिभावेन वत्सलः
धातृशर्मा तु तच्छ्रुत्वा भास्करं मोहनाशनम्
रात्रिरूपा प्रवृत्तिश्च निवृत्तिर्दिनरूपिणी 3.4.7.
अव्यक्ते तु स्थितं तेजो भवतो दिव्यसूक्ष्मकम्
राजसी या स्मृता बुद्धिस्तत्पतिर्भगवान्विधिः
सात्त्विकी या तनौ बुद्धिस्तत्पतिर्भगवान्हरिः
तामसी मोहना बुद्धिस्तत्पतिश्च स्वयं शिवः देहि मे भगवन्मोक्षं संज्ञाकांत नमोनमः
महेन्द्रवचनं प्राह तं द्विजं ज्ञानकोविदम्
मोक्षश्चतुर्विधो विप्र सालोक्यं तपसोद्भवम्
सायुज्यं ज्ञानतो ज्ञेयं तेषां स्वामी परः पुमान्
देवानां चैव देहेषु ये मोक्षाः पुनरागताः
यत्प्रसन्नेन विप्रेन्द्र सायुज्यं मे भवेत्तव इत्युक्त्वांतर्दधे देवस्तेन मोक्षीकृतो द्विजः
स्वरूपं दर्शयामास देवदेवः सनातनः ।। 3.4.7.
शृणुध्वं सकला देवा यन्निमिताः समागताः
इत्युक्त्वा स्वमुखात्तेजः समुत्पाद्य दिवाकरः
धातृशर्मा द्विजो यो वै सूर्ये मोक्षमुपागतः
ईश्वरो नाम विख्यातः पुरीशद्वान्त आत्मवान्
इति ते कथितं विप्र यथा जीवनभाषितम्
काव्यविद्यापरो नित्यं रसिकः कामिनीप्रियः
कुंभराशिं मयि प्राप्ते गंगाद्वारे महोत्सवः
तत्रोत्सवे नरा नार्य्यो बहुभूषणभूषिताः
मित्रशर्मा तु स प्राप्य कामसेनस्य वै सुताम्
दाक्षिणात्यस्य भूपस्य तनयां मधुराननाम् 3.4.7.
सा तु तं चित्रिणी नाम्ना मित्रशर्माणमुत्तमम्
स्वगेहं पुनरागत्य चित्रिणी भास्करं प्रभुम्
मित्रशर्मा तु तत्स्थाने गंगाकूले मनोहरे
स्तोत्रमादित्यहृदयमजपत्सूर्यतत्परः