तैत्तिरं देशमागम्य दुर्गं तत्र चकार सः 3.4.6.
तदा तु सकला देवा दुःखिता वासवं प्रभुम्
वयं तु भगवन्सर्वे शालग्रामशिलास्थिताः शालग्रामशिलामध्ये वसामो मुदिता वयम्
शिलास्सर्वाश्च नो देव शालदेशसमुद्भवाः
इति श्रुत्वा तु वचनं देवानां भगवान्स्वराट्
चुकोप भगवानिन्द्रो दैत्यान्प्रत्यभ्रवाहनः तैत्तिरे प्रेषयामास देशे म्लेच्छनिवासके
तस्य शब्देन सकला देशाश्च बहुभिन्नकाः
शालग्रामशिलाः सर्वा गृहीत्वा विबुधास्तदा
महेन्द्रस्तु सुरैः सार्द्धं देवपूज्यमुवाच ह
वेदधर्मं समुल्लंघ्य मम नाशनतत्पराः
ददौ तस्यै वरं विष्णुर्भवितास्मि सुतः कलौ ।।3.4.6.
त्वदाज्ञया च सा देवी पुरीं शांतिमयीं शुभाम्
प्रत्यागत्य द्विजो भूत्वा कार्यसिद्धिं करिष्यति
इति श्रुत्वा गुरोर्वाक्यं रुद्रैरेकादशैः सह
तीर्थराजमुपागम्य प्रयागं च रविप्रियम्
बृहस्पतिस्तदागत्य सूर्यमाहात्म्यमुत्तमम्
ऋषय ऊचुः बृहस्पतिस्तु भगवान्मुनिर्देवान्समास्थितान्
तत्सर्वं कृपया ब्रह्मन्ब्रूहि नस्तत्समुत्सुकान्
बृहस्पतिं समासीनं जीवरूपं गुणालयम्
कथयस्व महाभाग सूर्यमाहात्म्यमुत्तमम्
बृहस्पतिरुवाच तपसा तोषयामास बर्हिष्मतिपुरे स्थितः
पंचमाब्दे तु भगवान्संतुष्टश्च प्रजापतिः
वर्षांतरे जनयित्वा त्र्यपत्य स द्विजोत्तमः
विवाहाश्च कथं तेषां भवितव्या महोत्तमाः
हवनैस्तोषयामास वर्षमात्रविधानतः
प्रसन्नस्तु तदा विप्रो वधूर्जामातरं मुदा 3.4.7.
भूषणानि च वासांसि धनानि विविधानि च
षष्टिवर्षमयो भूत्वा चंदनाद्यैर्धनाधिपम्
तदा प्रसन्नो भगवान्ददौ तस्मै धनं बहु
सहस्रजापी संपूज्य हवनं तद्दशांशकम्