ऊनविंशसहस्राणि लक्षैको मानुषाब्दकैः 3.4.6.
निर्गुणोऽव्यक्तजन्मा च कालात्सर्वेश्वरः परः
इन्द्रियाणि मनो बुद्धिरव्यक्तस्य स्मृतानि वै
यदा व्यक्ते स्वयं प्राप्तोऽव्यक्तजन्मा हि संस्मृतः
सूक्ष्मो मनोनिलो भूत्वा गच्छेद्वै ब्रह्मणः पदम्
तत्र स्थाने तु मुनयो गताः सर्वे समाधिना
सच्चिदानंदघनकं ततः प्राप्ताः कलेवरे
ददृशुर्मनुजान्सर्वान्पशुतुल्यान्हि सूक्ष्मकान्
क्वचित्क्वचित्स्थिता वर्णा वर्णसंकरसन्निभाः
तीर्थानि सकला वेदास्त्यक्त्वा भूमंडलं तदा ।। गोप्यो भूत्वा च हरिणा सार्द्धं चक्रुर्महोत्सवम्
पाषंडा बहुजातीया नानामार्गप्रदर्शकाः 3.4.6.
इति दृष्ट्वा तु मुनयो रोमहर्षणमंतिके
तैश्च तत्र स्तुतः सूतो योगनिद्रां सनातनीम् तच्छृणुष्व नृपश्रेष्ठ यथा सूतेन वर्णितम्
तच्छृणुध्वं मुनिश्रेष्ठा लक्षाब्दांते यथाभवत्
मुकुलान्वयसंभूतो म्लेच्छभूपः पिशाचकः
आर्यान्म्लेच्छांस्तदा भूपाञ्जित्वा कालस्वरूपकः
आहूय सकलान्विप्रानार्यदेशनिवासिनः
निर्मिता येन वा मूर्तिस्तस्य पुत्रीसमा स्मृता विष्णुदेवश्च युष्माभिः प्रोक्तः स तु न वै हरिः
अतो वः सकला वेदाः शास्त्राणि विविधानि च इत्युक्त्वा तान्बलाद्गृह्य ज्वलदग्नौ समाक्षिपत्
शालग्रामशिलाः सर्वा बलात्तेषां सुपूज्यकाः
तैत्तिरं देशमागम्य दुर्गं तत्र चकार सः 3.4.6.
तदा तु सकला देवा दुःखिता वासवं प्रभुम्
वयं तु भगवन्सर्वे शालग्रामशिलास्थिताः शालग्रामशिलामध्ये वसामो मुदिता वयम्
शिलास्सर्वाश्च नो देव शालदेशसमुद्भवाः
इति श्रुत्वा तु वचनं देवानां भगवान्स्वराट्
चुकोप भगवानिन्द्रो दैत्यान्प्रत्यभ्रवाहनः तैत्तिरे प्रेषयामास देशे म्लेच्छनिवासके
तस्य शब्देन सकला देशाश्च बहुभिन्नकाः
शालग्रामशिलाः सर्वा गृहीत्वा विबुधास्तदा
महेन्द्रस्तु सुरैः सार्द्धं देवपूज्यमुवाच ह
वेदधर्मं समुल्लंघ्य मम नाशनतत्पराः