चिक्रीड सखिभिः क्रीडां सरोमध्ये मनोहरा 3.2.1.
दृष्ट्वा पद्मावतीं बालां तुल्यरूपगुणान्विताम्
प्रबुद्धो वज्रमुकुटो मां पाहि शिवशंकर १२ शिरसः पद्मकुसुमं सा गृहीत्वा तु कर्णयोः
पुनर्गृहीत्वा तत्पुष्पं हृदये संप्रवेशितम्
तीर्थार्थं च समं पित्रा संप्राप्ता गिरिजावने
महतीं मानसीं पीडां प्राप्तवान्मोहमागतः
ध्यात्वा पद्मावतीं बालां मौनव्रतमचीकरत्
कुमारः कां दशां प्राप्त इति हाहेति सर्वतः
अब्रवीद्वज्रमुकुटं सत्यं कथय भूपते
तच्छ्रुत्वा बुद्धिदक्षश्च विहस्याह महीपतिम् 3.2.1.
करणाटकभूपस्य दंतवक्त्रस्य सा सुता
पुष्पभावेन ज्ञात्वाहं त्वां नयामि तदंतिके
आहाज्ञां देहि भूपाल यास्येहं कारणाटके
आयामि नाऽत्र सन्देहो यदि जीवयसे सुतम्
हयारूढौ गतौ शीघ्रं दंतवक्त्रस्य पत्तने
बहुद्रव्यं ददौ तस्यै बुद्धिदक्षो विशारदः
प्रातःकाले तु सा वृद्धा गच्छती राजमन्दिरम्
पद्मावतीं च संप्राप्यैकांते मद्वचनं वद
यो दृष्टः पुरुषो रम्यस्त्वदर्थे समुपागतः
रुष्टा पद्मावती प्राह चंदनार्द्रांगुलीयिका 3.2.1.
अंगुलीभिः कपोलौ च तस्याः स्पृष्ट्वा ययौ गृहम्
स मित्रं दुःखितं प्राह शृणु मित्र शुचं त्यज
त्वदर्थे ताडितं वक्षः कदा मित्रं भविष्यसि
रजस्वलांते भो मित्र तवास्यं चुंबितास्म्यहम्
त्रिदिनांते तु सा वृद्धा पद्मावत्यै न्यवेदयेत्
तं भजस्वाद्य सुश्रोणि सफलं जीवनं कुरु
गवाक्षद्वारि निष्कास्य तले पृष्ठे च ताडिता
प्रसन्नो बुद्धिदक्षश्च मित्रं प्राह शृणुष्व भोः
अर्द्धरात्रे तु संप्राप्य भज मां कामविह्वलाम्
ययौ शीघ्रं महाकामी रमणीं तामरामयत् 3.2.1.