सूर्यमंडलतो जातो मनुर्वैवस्वतः स्वयम्
दिव्यानां च युगानां च तज्ज्ञेयं चैकसप्ततिः
विष्णुः पूर्वार्द्धतो जातः परार्द्धाद्वामनः स्वयम्
चतुश्शतानि वर्षाणि परमायुर्नृणां तदा
वर्षाणां त्रिशतानां च नृणामायुः प्रकीर्तितम्
कलौ तु मरणं प्राप्तो विश्वरूपो हरिः स्वयम्
परार्द्धाद्वामनो देवो महेन्द्रावरजो हरिः 3.4.5.
विश्वरूपहितार्थाय त्रियुगी संबभूव ह
श्वेतरूपो हरिः सत्ये हंसाख्यो भगवान्स्वयम् द्वापरे पीतरूपश्च स्वर्णगर्भो हरिः स्वयम्
कलिकाले तु संप्राप्ते संध्यायां द्वापरे युगे एकीभूता च देवक्यां जातो विष्णुस्तदा स्वयम्
वसुदेवगृहे रम्ये मथुरायां च देवताः
तदा प्रसन्नो भगवान्देवानाह शुभं वचः अहं कलौ च बहुधा भवामि सुरसत्तमाः
दिव्यं वृंदावनं रम्यं सूक्ष्मं भूतलसंस्थितम्
सर्वे वेदाः कलौ घोरे गोपीभूताः समंततः
राधया प्रार्थितोऽहं वै यदा कलियुगांतके
युगांतप्रलयं कृत्वा पुनर्भूत्वा द्विधातनुः
इति श्रुत्वा तु ते देवास्तत्रैवान्तर्लयं गताः 3.4.5.
ये तु वै विष्णुभक्ताश्च ते हि जानंति विश्वगम् जानंति नापरे विप्र तथा दासा हरेः स्वयम्
विष्णुवांछानुसारेण विष्णुमाया सनातनी
कृत्वा कालमयं सर्वं जगदेच्चराचरम्
नमस्तस्यै महाकाल्यै विष्णुमाये नमोनमः
तान्नो वद महाभाग सर्वज्ञोऽस्ति भवान्सदा
वलीगढं महारम्यं यादवै रक्षितं पुरम्
वीरसेनस्य वै पौत्रं भूपसेनं नृपोत्तमम्
एतस्मिन्नंतरे भूपा नानादेश्याः समागताः
सहोद्दीनस्तु तच्छ्रुत्वा पुनरागत्य देहलीम्
तत्पश्चाद्बहुधा म्लेच्छा इहागत्य समन्ततः
अद्यप्रभृति देशेऽस्मिञ्छतवर्षान्तरे हि ते
म्लेच्छभूपा मुनिश्रेष्ठास्तस्माद्यूयं मया सह
इति श्रुत्वा तु वचनं दुःखात्संत्यज्य नैमिषम्