गंगाकूले शांतिपुरं रचितं तेन धीमता
नदीवर्मा तस्य सुतो गंगादत्तवरो बली
गंगया च तदाहूतोभिज्ञो विद्याधरः स्वयम्
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महात्मना
शार्ङ्गदेवस्तस्य सुतो बलवान्हरिपूजकः
दशवर्षं कृतं राज्यं गंगादेवस्तु तत्सुतः
तनयो बलवांश्चासीद्गौडदेशमहीपतिः 3.4.4.
पितुस्तुल्यं कृतं राज्यं नृसिंह स्तनयोऽभवत्
राष्ट्रदेशमुपागम्य जित्वा तस्य नृपं बली
पितुस्तुल्यं कृतं राज्यं धृतिवर्मा सुतोऽभवत्
जयचंद्राज्ञया भूप उर्वीमायामिति स्मृताम्
कुरुक्षेत्रे हताः सर्वे क्षत्रियाश्चंद्रवंशिनः
विंशद्वर्षं कृतं राज्यं सहोद्दीनेन वै ततः
घोरवर्मा तु नृपतिः सुतः परिहरस्य वै
तदन्वये च ये भूपाः शार्दूलीयाः प्रकीर्तिताः
बभूव सर्वतो भूमौ महामायाप्रसादतः
कुलं सकलपापघ्नं यथैव शशिसूर्ययोः 3.4.4.
चाक्षुषांतरमेवापि महावायुर्बभूव ह
तत्प्रभावेन हेमाद्रिः कंपमानः पुनःपुनः
नभसो भूतले प्राप्तस्तदा भूमिः प्रकंपिता
सप्तद्वीपाः समुद्राश्च जलभूता बभूविरे
शेषा भूमिर्लयं प्राप्ता मन्वंतरे लये
तदा स भगवान्विष्णुर्भवेन विधिना सह
गृहीत्वा सकलास्तारा ग्रहान्सर्वान्यथाविधि
पुनर्वै ज्योतिषां चक्रैः शोषिता सकला मही
तदा स भगवान्ब्रह्मा मुखात्सोमं चकार ह
भुजाभ्यां भगवान्ब्रह्मा क्षत्रराजं महाबलम् 3.4.5.
ऊरुभ्यां वैश्यराजं च समुद्रं सरितां पतिम्
पद्भ्यां च जनयामास विश्वकर्माणमुत्तमम्
सोमाद्वै ब्राह्मणा जाताः सूर्याद्राजन्यवंशजाः