अतः कलिंजरो नाम्ना प्रसिद्धोऽभून्महीतले
गौरवर्मा तस्य सुतः कृतं राज्यं पितुः समम्
गौडदेशं समागम्य तत्र राज्यमकारयत्
पितुस्तुल्यं कृतं राज्यं रूपणस्तत्सुतोऽभवत्
शको नाम ततो राजा महालक्ष्मीं सनातनीम्
स्वभक्तपालना चैव तत्र वासमकारयत्
मिथुनं जनयामास भोगो भोगवती हि सा ।। 3.4.4.
स्वराज्यं च स्वपुत्राय प्रददौ भोगवर्मणे
महोत्सवं महाकाल्याः कृतवान्स च भूपतिः
कलिका बहुपुष्पाणां सा चकार स्वहर्षतः
कलिकाता पुरी नाम्ना प्रसिद्धाभून्महीतले
कात्यायनस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
शिववर्मा च तत्पुत्रः पितुस्तुल्यं कृतं पदम्
रुद्रवर्मा च तत्पुत्रः कृतं राज्यं पितुः समम्
भोजराष्ट्रं वनोद्देशे कारयामास वीर्यवान्
पितुस्तुल्यं कृतं राज्यं विंध्यवर्मा नृपोऽभवत्
पितुस्तुल्यं कृतं राज्यं सुखसेनस्ततोऽभवत् 3.4.4.
दशवर्षं कृतं राज्यं लक्ष्मणस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं वेशवस्तत्सुतोऽ भवत्
पितुस्तुल्यं कृतं राज्यं ततो नारायणोऽभवत्
गंगाकूले शांतिपुरं रचितं तेन धीमता
नदीवर्मा तस्य सुतो गंगादत्तवरो बली
गंगया च तदाहूतोभिज्ञो विद्याधरः स्वयम्
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महात्मना
शार्ङ्गदेवस्तस्य सुतो बलवान्हरिपूजकः
दशवर्षं कृतं राज्यं गंगादेवस्तु तत्सुतः
तनयो बलवांश्चासीद्गौडदेशमहीपतिः 3.4.4.
पितुस्तुल्यं कृतं राज्यं नृसिंह स्तनयोऽभवत्
राष्ट्रदेशमुपागम्य जित्वा तस्य नृपं बली
पितुस्तुल्यं कृतं राज्यं धृतिवर्मा सुतोऽभवत्