स वेणुश्च महीपालो देवीदत्तां मनोहराम्
तस्यां सप्त सुता जाता मातॄणां मंगलाः कलाः
गोवर्धनी च सिंदूरा काली नाम्ना प्रकीर्तिता
वाराही च तथेन्द्राणी चामुण्डाः क्रमतोऽभवन्
कूपे कृतवती प्रेम्णा यथा पूर्वं तथाद्य सा
स्वयमेकैव वसना मनोग्लानिमुपाययौ
दृष्ट्वा कन्यावती देवी घटहीना गृहं ययौ
श्रुत्वा वेणुस्तदागत्य भर्त्सयित्वा स्वकां प्रियाम् 3.4.3.
नृपाद्वै वीरवत्यां च यशोविग्रह आत्मजः
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महीतले
चंद्रदेवस्तस्य सुतो राज्यं तेन पितुः समम्
तस्य भूपस्य समये सर्वे भूपाः समन्ततः
पितुरर्द्धं कृतं राज्यं कुम्भपालस्ततो ऽभवत्
तत्पतिश्च महामोदो म्लेच्छपैशाचधर्मगः
म्लेच्छधर्मकरः प्राप्तः कुम्भपालो यतः स्थितः
महामोदं समागम्य प्रणनाम स बुद्धिमान्
राजनीयां च नगरीं प्राप्तवान्मूर्तिखंडकम्
तत्पुत्रो देवपालश्चानंगभूपस्य कन्यकाम् 3.4.3.
पितुस्तुल्यं कृतं राज्यं तस्योभौ तनयौ स्मृतौ
जयचंद्रो रत्नभानुर्दिशं पूर्वां तथोत्तराम्
रत्नभानोश्च तनयो लक्षणो नाम विश्रुतः
समाप्तिमगमद्वंशो वैश्यपालस्य धीमतः
विष्वक्सेनान्वये जाता विष्वक्सेना(विश्वक्नेना?) नृपाः स्मृताः
गुहिलस्य कुले जाता गौहिलाः क्षत्रिया हि ते
वैश्यपालस्य वै वंशे कुंभपालस्य धीमतः
लक्षणे मरणं प्राप्ते शुक्ल वंशधुरंधुरे
शेषास्तु क्षुद्रभूपाला वर्णसंकरसंभवाः
जित्वा बौद्धान्परिहरोऽथर्ववेदपरायणः
शक्तिं सर्वमयीं नित्यां ध्यात्वा प्रेमपरोऽभवत्
नगरं चित्रकूटाद्रौ चकार कलिनिर्जरम्