किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः
शतानीक उवाच मतानि कानि विप्रेन्द्र ! धर्मशास्त्राणि सुव्रत! । यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः
सुमन्तुरुवाच श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारकपुरं गत्वा मोदते नात्र संशयः
शतानीक उवाच यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! । नेच्छामि श्रोतुं विप्रेन्द्र! श्रुतान्येतानि हि द्विज!
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम!
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो । धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम्
आगमेन विहीना हि अहो कष्टं मतं मम् । कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः
सुमन्तुरुवाच साधु साधु महाबाहो! शृणु मे परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे
धर्मशास्त्राणि राजेन्द्र! शृणु तानि नृपोत्तम । विशेषतश्च शूद्राणां पावनानि मनीषिभिः
अष्टादशपुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये
तथोक्तं भारतं वीर! पाराशर्येण धीमता । वेदार्थसकलं योज्य धर्मशास्त्राणि च प्रभो!
कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम्
अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम्
यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया । प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते
याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा । सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा
एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् । आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम्
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम्
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम्
एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम
शतानीक उवाच भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु । रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः
पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत । पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे
सुमन्तुरुवाच साधु साधु महाबाहो साधु पृष्टोऽस्मि मानद । शृणु मे वदतो राजन् पुराणं नवमं महत्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप । अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः