प्रजयः पितरौ त्यक्त्वा गंगाकूलमुपाययौ
कन्या मूर्तिमयी देवी वेणुवादनतत्परा
किन्निमित्तं भूपसुत त्वया चाराधिता शिवा
इति श्रुत्वा स होवाच कुमारि मधुरस्वरे
इति श्रुत्वा तु सा देवी ददौ तस्मै हयं शुभम्
स भूपो हयमारुह्य नेत्र आच्छाद्य चाययौ
ततोनुप्रययौ पूर्वमर्कणो यत्र पक्षिराट्
ददर्श नगरं रम्यं कन्याया रचितं शुभम् 3.4.3.
पश्चिमे ईशसरिता पूर्वे पक्षी स मर्कणः
दशवर्षं च तेनैव जयपालेन वै पदम्
स वेणुश्च महीपालो देवीदत्तां मनोहराम्
तस्यां सप्त सुता जाता मातॄणां मंगलाः कलाः
गोवर्धनी च सिंदूरा काली नाम्ना प्रकीर्तिता
वाराही च तथेन्द्राणी चामुण्डाः क्रमतोऽभवन्
कूपे कृतवती प्रेम्णा यथा पूर्वं तथाद्य सा
स्वयमेकैव वसना मनोग्लानिमुपाययौ
दृष्ट्वा कन्यावती देवी घटहीना गृहं ययौ
श्रुत्वा वेणुस्तदागत्य भर्त्सयित्वा स्वकां प्रियाम् 3.4.3.
नृपाद्वै वीरवत्यां च यशोविग्रह आत्मजः
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महीतले
चंद्रदेवस्तस्य सुतो राज्यं तेन पितुः समम्
तस्य भूपस्य समये सर्वे भूपाः समन्ततः
पितुरर्द्धं कृतं राज्यं कुम्भपालस्ततो ऽभवत्
तत्पतिश्च महामोदो म्लेच्छपैशाचधर्मगः
म्लेच्छधर्मकरः प्राप्तः कुम्भपालो यतः स्थितः
महामोदं समागम्य प्रणनाम स बुद्धिमान्
राजनीयां च नगरीं प्राप्तवान्मूर्तिखंडकम्
तत्पुत्रो देवपालश्चानंगभूपस्य कन्यकाम् 3.4.3.
पितुस्तुल्यं कृतं राज्यं तस्योभौ तनयौ स्मृतौ
जयचंद्रो रत्नभानुर्दिशं पूर्वां तथोत्तराम्