विंशदब्दं कृतं राज्यं जयसेनस्ततोऽभवत्
शतार्धाब्दं कृतं राज्यं मिथुनं तस्य चाभवत्
विसेनश्च ददौ प्रीत्या राष्ट्रं पुत्राय चोत्तमम्
सिंधुकूले कृतं राज्यं त्यक्त्वा तत्पैतृकं पदम्
पितुस्तुल्यं कृतं राज्यं राज्ञा वै सिंधुवर्मणा
श्रीपतिस्तस्य तनयो गौतमान्वयसंभवाम्
पुलिन्दान्यवनाञ्जित्वा तत्र देशमकारयत्
पितुस्तुल्यं कृतं राज्यं भुजवर्मा ततोऽभवत् ।। 3.4.3.
भुजदेशस्ततो जातः प्रसिद्धोऽभून्महीतले
पितुस्तुल्यं कृतं राज्यं चित्रवर्मा सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं धर्मवर्मा सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यमुदयस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं वाप्यकर्मा सुतोऽभवत्
धर्मार्थे कारयामास धर्मात्मा स च वै पुरम्
लक्षसैन्ययुतो वीरो महामदमते स्थितः
जित्वा पैशाचकान्म्लेच्छान्कृष्णोत्सवमकारयत्
पितुस्तुल्यं कृतं राज्यं कालभोजः सुतोऽभवत्
स त्यक्त्वा पैतृकं स्थानं वैष्णवीं शक्तिमागमत् ।। 3.4.3.
प्रसन्ना सा तदा देवी कारयामास वै पुरीम्
तत्रोष्य नृपतिर्धीमान्दशाब्दं राज्यमाप्तवान्
प्रजयः पितरौ त्यक्त्वा गंगाकूलमुपाययौ
कन्या मूर्तिमयी देवी वेणुवादनतत्परा
किन्निमित्तं भूपसुत त्वया चाराधिता शिवा
इति श्रुत्वा स होवाच कुमारि मधुरस्वरे
इति श्रुत्वा तु सा देवी ददौ तस्मै हयं शुभम्
स भूपो हयमारुह्य नेत्र आच्छाद्य चाययौ
ततोनुप्रययौ पूर्वमर्कणो यत्र पक्षिराट्
ददर्श नगरं रम्यं कन्याया रचितं शुभम् 3.4.3.
पश्चिमे ईशसरिता पूर्वे पक्षी स मर्कणः
दशवर्षं च तेनैव जयपालेन वै पदम्