ततश्चानंद देवो हि जातः पुत्रः शुभाननः
तत्सुतेन पितुस्तुल्यं कृतं राज्यं महीतले
अनंगपालस्य सुतो ज्येष्ठां वै कीर्तिमालिनीम्
धुंधुकारश्च वै ज्येष्ठो मथुराराष्ट्रसंस्थितः
महीराजस्तु बलवांस्तृतीयो देहलीपतिः
चपहानेश्च स कुलं छाययित्वा दिवं ययौ
म्लेच्छैश्च भुक्तवत्यस्ता बभूबुर्वर्णसंकराः
मेहना म्लेच्छजातीया जट्टा आर्यमयाः स्मृताः
यदा कृष्णः स्वयं ब्रह्म त्यक्त्वा भूमिं स्वकं पदम्
दिव्यं वृन्दावनं रम्यं प्रययौ भूतले तदा
स्थिता द्वीपेषु वै नाना मनुजा वेदतत्पराः
अष्टषष्टिसहस्राणां वर्षाणां मुनिसत्तम
षष्टिवर्षसहस्राणि द्वीपराज्यमचीकरत्
तत्पश्चाद्भारते वर्षे म्लेच्छया कलिराययौ
भयभीतस्त्वराविष्टो गन्धर्वाणां यशस्करः
ततो वर्षशताब्दांते संतुष्टो रविरागतः
चतुर्वर्षसहस्राणि चतुर्वर्षशतानि च
संपन्नं भारतं वर्षं तदा जातं समंततः । ।।। 3.4.3.
सहस्राब्दकलौ प्राप्ते महेन्द्रो देवराट् स्वयम्
आर्यावती देवशक्तिस्तत्करं चाग्रहीन्मुदा
मिश्रदेशोद्भवान्म्लेच्छान्वशीकृत्यायुतं मुदा
नष्टायां सप्तपुर्यां च ब्रह्मावर्तं महोत्तमम्
स्वपुत्रं शुक्लमाहूय द्विजश्रेष्ठं तपोधनम्
नवपुत्राँस्तथा शिष्यान्मनुधर्मं सनातनम्
शुक्लोपि रैवतं प्राप्य सच्चिदानंदविग्रहम्
तदा प्रसन्नो भगवान्द्वार कानायको बली
द्वारकां दर्शयामास दिव्यशोभासमन्विताम्
अग्निद्वारेण प्रययौ स शुक्लोऽर्बुदपर्वते 3.4.3.
द्वारकां कारयामास हरेश्च कृपया हि सः
पश्चिमे भारते वर्षे दशाब्दं कृतवान्पदम्