गृहीत्वा ब्रह्मरचितमजमेरमवासयत्
अजस्य ब्रह्मणो मा च लक्ष्मीस्तत्र रमा गता
दशवर्षं कृतं राज्यं तोमरस्तत्सुतोऽभवत्
इंद्रप्रस्थं ददौ तस्मै प्रसन्नो नगरं शिवः
तोमरावरजश्चैव चयहानिसुतः शुभः
सप्तवर्षं कृतं राज्यं महादेवस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत्
पितुरर्द्धं कृतं राज्यं मध्यदेशे महात्मना
विक्रमाय ददौ वीरां पिता वेदविधानतः
पितुस्तुल्यं कृतं राज्यं माणिक्यस्तत्सुतोभवत् 3.4.2.
पितुस्तुल्यं कृतं राज्यं चंद्रगुप्तस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं मोहनस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं नागवाहस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत्
शतार्द्धाब्दं कृतं राज्यं चंद्रराय स्ततोभवत्
पितुस्तुल्यं कृतं राज्यं वसंतस्तस्य चात्मजः
पितुस्तुल्यं कृतं राज्यं प्रमथस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं विशालस्तस्य चात्मजः
पितुस्तुल्यं कृतं राज्यं मंत्रदेवस्ततोऽभवत्
आर्यदेशाश्च सकला जितास्तेन महात्मना 3.4.2.
ततश्चानंद देवो हि जातः पुत्रः शुभाननः
तत्सुतेन पितुस्तुल्यं कृतं राज्यं महीतले
अनंगपालस्य सुतो ज्येष्ठां वै कीर्तिमालिनीम्
धुंधुकारश्च वै ज्येष्ठो मथुराराष्ट्रसंस्थितः
महीराजस्तु बलवांस्तृतीयो देहलीपतिः
चपहानेश्च स कुलं छाययित्वा दिवं ययौ
म्लेच्छैश्च भुक्तवत्यस्ता बभूबुर्वर्णसंकराः
मेहना म्लेच्छजातीया जट्टा आर्यमयाः स्मृताः
यदा कृष्णः स्वयं ब्रह्म त्यक्त्वा भूमिं स्वकं पदम्
दिव्यं वृन्दावनं रम्यं प्रययौ भूतले तदा